SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ एषु पञ्चसु चत्वारोऽरूपिणोऽजीवाः । पुद्गलास्तिकायो रूपिद्रव्यम् । वर्णरस-गन्ध-स्पर्शयुक्तत्वात्' ये केचनापि निर्जीवपदार्थाः दृष्टिगोचरा भवन्ति ते सर्वेऽपि पुद्गलात्मकाः । तत्त्वार्थसूत्रस्य टीकायां पुद्गल विषये तत्त्वार्थस्य सिद्धसेनव्याख्यायां व्युत्पत्तिः प्रदर्शिता-"पूरणात् गलनाच्च पुद्गलाः"। अस्तिकायधर्मविषये जैनाचार्याणां प्रायः सर्वमान्य-व्युत्पत्तिलभ्या परिभाषास्ति'प्रस्तयः-प्रदेशाः तेषां कायो-राशि रस्तिकायः, धर्मो-गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः । इति विषयः तत्त्वार्थस्य पञ्चमेऽध्याये वरिणतः तथा सुबोधिकायां टीकायां सम्यग् स्फुटीकत्तु प्रयतितमाचार्यप्रवरेण । यया क्रियया जीवे कर्मणां स्रावः-प्रागमनं भवति तदेव प्रास्रवतत्त्वम् । प्रास्रवः कर्मणां प्रवेशद्वारः। महर्षिणोमास्वातिमहोदयेन षष्ठेऽध्याये प्रास्रवविषये आगमसिद्धान्तपूतानि सूत्राणि विरचितानि । कायवाङ्मनःकर्मयोगः स प्रास्रवः । स कषायाकषाययोः साम्परायिकर्यापथयोः । अस्मिन् प्रसङ्ग सुबोधिकाटीकायां श्रीमद्विजय सुशीलसूरीश्वरेण साधुरीत्या स्फुटीकृत्य विषयः प्रतिपादितः । पञ्चमषष्ठाध्याययोः सुबोधिकायां भेदप्रभेदसहितम् अजीवास्रवतत्त्वयोः सद्यः सुबोधकारिणी व्याख्याशैली समादृता सूरीश्वरेणेति साधुवादार्हाः । एषा रचना मननीया सर्वथोपादेया च जिज्ञासुभिः बालमुनिभिः शोधार्थिभिश्चेति मन्तव्यम् । शिवमस्तु सर्वजगतः । विदुषां वशंवदः कृष्ण जन्माष्टमी, १५-८-६८ शम्भुदयालपाण्डेयः कुलवन्तीकुञ्जम् संस्कृतव्याख्याता १०/४३० नन्दनवनम् जोधपुरम् । (क) स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः । तत्त्वार्थ ५/२३ (ख) सदं धयार-उज्जोओ, पहा छायातवे इ वा । ___ वण्णगंधरसाफासा, पुग्गलाणं तु लक्खणं ।।-उत्तराध्ययन २८/२१ २. स्थानांग, १० स्थानवृत्तिः। ३. तत्त्वार्थ. अ. ६, सू. १। ४. तत्त्वार्थ. अ. ६, सू.५।
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy