SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ( २२ ) तत्त्वार्थाधिगमे दशाध्यायाः सन्ति येषु विशदीकृतं व्याख्यातञ्च जैनतत्त्वदर्शनम् । तत्त्वार्थाधिगमस्य संस्कृतहिन्दीभाषायां व्याख्यायितोऽयं ग्रन्थः विद्वमूर्धन्याचार्यः श्रीविजयसुशीलसूरीश्वर - महोदयः प्रतीवोपादेयत्वं धार्यते। जैनदर्शनसाहित्ये शताधिकग्रन्थानां रचयिता श्रीमद्विजयसुशीलसूरीश्वरः दर्शनशास्त्राणां प्रतीवमेधावी विद्वान् वर्तते । उर्वरीक्रियतेऽनेन भवमरुधराऽखिलमण्डलम् । जिनशासनश्च स्वतपतेज-व्याख्यानलेखन-पीयूषधारा जीमूतमिव श्रीमद्विजयसुशीलसूरीश्वरेण प्रथमेऽध्याये मोक्षपुरुषार्थसिद्धये निर्दोषप्रवृत्तिश्च तस्या जघन्यमध्यमोत्तरस्वरूपं विशदीकृतमस्ति (१) देवपूजनस्यावश्यकता तस्य फलसिद्धिः । (२) सम्यग्दर्शनस्य स्वरूपं तथा तत्त्वानां व्यवहारलक्षणानि । (३) प्रमाणनयस्वरूपस्य वर्णनम् । (४) जिनवचनश्रोतृणां व्याख्यातृणाञ्च फल प्राप्तिः । (५) ग्रंथव्याख्यानप्रोत्साहनम् । (६) श्रेयमार्गस्योपदेशः सरलसुबोधटीकया विवक्षितः । अस्य ग्रंथस्य टीका प्राचार्यप्रवरेण समयानुकूल-मनोवैज्ञानिक-विश्लेषणेन महती प्रभावोत्पादका कृता। प्राचार्यदेवेन तत्त्वार्थाधिगमसूत्रसदृशः क्लिष्टविषयोऽपि सरलरीत्या प्रबोधितः । जनसामान्यबुद्धिरपि जनः तत्त्वविषयं प्रात्मसात्कर्तुं शक्नोति । अस्मिन् भौतिकयुगे सर्वेऽपि भौतिकैषणाग्रस्ता मिथ्यासुखतृष्णायां व्याकुलाः मृगो जलमिव भ्रमन्ति प्रात्मशान्तये। प्रात्मशान्तिस्तु भौतिकसुखेषु असम्भवा । भवाम्भोधिपोतरिवायं ग्रन्थः मोक्षमार्गस्य पाथेयमिव सर्वेषां तत्त्वदर्शनस्य रुचि प्रवर्धयति । प्रात्मशान्तिस्तु तत्त्वदर्शनाध्ययनेनैव वर्तते न तु भौतिकशिक्षया । एतादृशी सांसारिकोविभीषिकायां प्राचार्यमहोदयस्यायं ग्रन्थः संजीवनीवोपयोगित्वं धार्यते संसारिणाम् । ज्ञानजिज्ञासुनां कृते ग्रन्थोऽयं शाश्वतसुखस्य पुण्यपद्धतिरिव मोक्षमार्ग प्रशस्तिकरोति । माशासेऽधिगत्य ग्रन्थोऽयं पाठकाः स्वजीवनं ज्ञानदर्शनचारित्रमयं कृत्वाऽनुभविष्यन्ति अपूर्वशान्तिमिति शुभम् । फाल्गुन शुक्ला पूर्णिमा -पं. हीरालाल शास्त्री, एम.ए. जालोर (राजस्थान) संस्कृतव्याख्याता
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy