________________
८.१०
]
प्रष्टमोऽध्यायः
[ १६
* सुबोधिका टीका * त्रिद्विषोडशनवभेदा यथाक्रमम् । मोहनीयकर्मणो दर्शनमोहनीयं तथा चारित्रमोहनीयमिति द्वौ भेदौस्तः । तस्य दर्शनमोहनीयस्य सम्यक्त्वमोहनीयं, मिथ्यात्वमोहनीयं तथा मिश्रमोहनीयमिति त्रयो भेदाः सन्ति । चारित्रमोहनीयस्य कषायवेदनीयं तथा नोकषाय-वेदनीयमिति द्वौ भेदौस्तः ।
तस्य कषायवेदनीयस्य अनन्तानुबन्धी, अप्रत्याख्यानी, प्रत्याख्यानी तथा संज्वलनामिति चत्वारो भेदाः भवन्ति । तथाऽनन्तरमेतेषां चतुर्णामेकैकस्य क्रोधः, मानः, माया, लोभ इति चत्वारश्चत्वारो भेदा भवन्तीति हेतोः मिलित्वा षोडश भेदाः भवन्ति ।
नोकषायवेदनीयस्य हास्यं, रतिः, अरतिः शोकः, भयं, जुगुप्सा, स्त्रीवेदः, पुरुषवेदः, नपुसकवेदश्चेति नव भेदाः सन्ति । तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्ति । इत्येवं मोहनीयमष्टाविंशतिभेदं भवतीति अनन्तानुबन्धी सम्यग्दर्शनोपघाती। तस्योदयाद्धि सम्यग्दर्शनं नोत्पद्यते । पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याख्यानकषायोदयाद् विरतिर्न भवति । प्रत्याख्यानावरण-कषायोदयाद् विरताविरतिर्भवत्युत्तमचारित्रलाभस्तु न भवति। संज्वलनकषायोदयाद् यथाख्यातचारित्रलाभो न भवत्येव ।
* क्रोधस्य तीवमध्यविमध्य मन्दभावाश्रितानि निदर्शनानि भवन्ति । तद्यथापर्वतराजिसमानः, भूमिराजिसदृशः, वालुकाराजितुल्यः, उदकराजि समान इति ।
* मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-शैलस्तम्भसदृशः, अस्थिस्तम्भः समानः, दारुस्तम्भतुल्यः, लतास्तम्भसदृश इति ।
* मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति। तद्यथा-वंशकुणसदृशी, मेषविषाण सदृशी, गोमूत्रिकासदृशी, निर्लेखन सदृशीति ।।
* लोभस्य तोवादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-लाक्षारागसमानः कर्दमरागसदृशः, कुसुमरागतुल्यः, हरिद्राराग सदृश इति ।
अत्रापि उपसंहार निगमने क्रोधनिदर्शनाख्याते ।
एषां क्रोधादीनां चतुण्णां कषायाणां प्रत्यनीकभूता: प्रतिघातहेतवो भवन्ति । तद्यथा-क्षमा क्रोधस्य, मार्दवं मानस्य, प्रार्जवं मायायाः, संतोषो लोभस्येति ।। ८-१० ॥