________________
॥ अहम् ॥
जश्रीतत्त्वार्थाधिगमसूत्रम् ॥
तस्यायं
पञ्चमोऽध्यायः
प्रत्र प्रथमाऽध्याये सम्यग्दर्शनं सम्यग्ज्ञानं नयानाञ्च प्रतिपादनं कृतम् । द्वितोयाऽध्याये तृतीयाऽध्याये चतुर्थाऽध्याये च जीवतत्त्वं प्राश्रित्य नानाविधनिरूपणं कृतम्। अधुनैव पञ्चमाऽध्याये अजीव-तत्त्वस्य वर्णनं क्रियते ।
* अजीवतत्त्वस्य मुख्यभेदाः * 卐 सूत्रम्अजीवकाया धर्माऽधर्माऽऽकाशपुद्गलाः ॥ ५-१॥
* सुबोधिका टोका * अजीवद्रव्याणि पञ्च। ते च पञ्चकायेति व्याख्याता। धर्मास्तिकायोऽधर्मास्तिकाय प्राकाशास्तिकायश्च पुद्गलास्तिकाय इति अजीवकायाः।
अत्र काय - शब्दस्य ग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थमेव । पञ्चद्रव्याणि अस्तिरूपाणि 'सत्' सन्ति । अतः अस्तिशब्दस्य प्रयोगः भवति ।
अन्यच्च यत् धर्मादिक-चतुर्णा द्रव्याणां प्रदेश-बाहुल्यात् कालद्रव्येषु नैतद् कालद्रव्यं तु एकप्रदेशी प्रतः कायशब्देन तस्य भेदः कृतः ।।
धर्मादिकानि पञ्चद्रव्याणि प्रजीवाः । तेषु जीवत्व-चैतन्याभावात् । जीवात् सर्वथा विरुद्धः वा तस्याभावः सर्वथा इति। प्रजीवशब्दस्य अर्थात्र नैवाभीष्टः, किन्तु एतानि द्रव्याणि नैव जीवरूपाणि इत्यभीष्टः ।। ५-१ ।।