________________
. ( १४ ) इत्थं दिगम्बरवृन्देषु विबुधसेन-योगीन्द्र-लक्ष्मीदेव-योगदेवाभयनन्दि-प्रमुखाः सुधयः श्रीतत्त्वार्थसूत्रस्य तलस्पशिनः संजाताः ।
श्वेताम्बर-वाङ्मये तत्त्वार्थसूत्रमनुसृत्य विविधास्टीकाः विद्यन्ते । अस्यैव सूत्रस्योपरि महामान्य-श्रीउमास्वातिमहाशयस्य स्वोपज्ञं भाष्यं वर्तते । तस्मिन् भाष्यग्रन्थे आत्मपरिचयं प्रदत्तवान् स्वयंश्रीवाचकवरेण्यः ।
श्रीतत्त्वार्थकारः सुतश्चासीत् वात्सीमातुः। स्वातिजनकस्य पुत्रश्च । उच्चनागरीयशाखायाः श्रमणः न्यग्रोधिकायां समुत्पन्नः । गोत्रेण कोभीषरिणश्चासीत् । पाटलीपुत्रनगरे रचितवान् सूत्रमिमं ।
श्रामण्यवतदाता घोषनन्दी, प्रज्ञापारदर्शी श्रुतशास्त्रे-एकादशाङ्गविदासीत् । विद्यादातृणां गुरुवराणां वाचकविशेषानां मूलशिवश्रीमुण्डपादप्रमुखानां श्लाघनीया परम्परा विद्यते । पुरातनकाले विद्यावंशस्य सौष्ठवं समीचीनं दृश्यते । तत्त्वार्थकारः श्रीउमास्वाति विद्यावंशविशिष्टविज्ञपुरुषः प्रतिभाति ।
तत्त्वार्थस्य टीकाकारः श्रीसिद्धसेनगणि "गन्धहस्ती" इत्याख्यया प्रसिद्धिमलभत् । अयमेव सिद्धसेनगणि मल्लवारिनः नयचक्रग्रन्थस्य टीकाकारस्य श्रीसिद्धसूरस्यान्वयेऽभूत् ।
अपरश्च टीकाकारः श्रीयाकिनीसूनुः श्रीहरिभद्र-महाभागः, अयमेव हरिभद्रसूरिः तत्त्वार्थस्य लघुवृत्तिटीकां पूर्णां न चकार । यशोभद्रेण पूर्णा कृता ।
उपांगटीकाकारेण श्रीमलयगिरिणा "प्रज्ञापनावृत्ती" चोक्तम्-तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधितमिति ततोऽवधारणीयं ।
___सम्प्रति मलयगिरिमहाशयस्य टीका न समुपलभ्यते। महामहोपाध्यायेन श्रीयशोविजयवाचकेन तत्त्वार्थ-भाष्यस्य टीका रचितासीत् । सा टीकापि स्खलिता वर्तते ।
तत्त्वार्थस्य रचनाशैली रम्या हृदयंगमा च, अस्यैव ग्रन्थस्य सौम्यस्वरूपेण तपस्विना श्रीसुशीलसूरिमहाभागेन टीका नवीना रचिता। अयमेव सूरिमहोदयः स्वाध्यायनिष्ठः सुज्ञः सर्वथा तपसि ज्ञाने च नितरां निमग्नः वर्तते ।