________________
३६ ] तृतीयोऽध्यायः
[ ३१ समुद्र को पुष्करवर द्वीप घेरे हुए है। इसी तरह क्रमशः स्वयम्भूरमणसमुद्र पर्यन्त जानना चाहिए । प्रत्येक द्वीप-समुद्र का आकार चूड़ी के आकार समान गोल है।
यद्यपि प्रथम जम्बूद्वीप में लवणसमुद्र प्रमुख के समान कंकण-चूड़ी जैसी गोलाई प्रतीत नहीं होती, कारण कि उसने किसी को घेर नहीं रखा है। इसलिए ही जम्बूद्वीप का आकार थाली के समान गोल है, ऐसा समझ लेना चाहिए ।। (३-८)
* निखिलद्वीप-समुद्राणां मध्ये प्रागतद्वीपस्य नामादिकम् * 卐 सूत्रम्तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ३-६ ॥
* सुबोधिका टीका * तेषामसंख्यातद्वीपसमुद्राणां मध्ये तन्मध्ये प्रथमः जम्बूद्वीपः । स च मेरुनाभिः । मेरुरस्य नाभ्यामिति मेरुर्वास्य नाभिरिति मेरुनाभिः । अयञ्च समस्तद्वीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतिर्योजनशतसहस्रविष्कम्भो जम्बूद्वीपः । वृत्तग्रहणं नियमार्थमेव । लवणादयो वलयवृत्ता जम्बूद्वीपस्तु प्रतरवृत्त इति । यथा गम्येत वलयाकृतिभिश्चतुरस्रव्यस्रयोरपि परिक्षेपो विद्यते। तत्र च मेरवः पञ्चः । यथा क्रमतः सुदर्शनविद्युन्माली-विजयाचलमन्दराश्चेति । एतेषु पञ्चषु प्रथमः सुदर्शनमेरुः जम्बूद्वीपस्य मध्ये वर्तते । प्रतरवृत्तः जम्बूद्वीपः । तथा च मेरुपर्वतः सुवर्णमयो स्थालाकृतिरपि । अन्यच्च मेरुः काञ्चनस्थालनाभिरिववृत्तो योजनसहस्रमधोधरणितलमवगाहो नवनवति उच्छ्रितो दशाद्यो विपुलः सहस्रमुपरीति । त्रिकाण्डस्त्रिलोकप्रविभक्तमूत्तिः चतुभिः वनैः भद्रशाल-नन्दन-सौमनस-पाण्डुकैः परिवृतः। तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथम काण्डमस्ति । द्वितीयं काण्डं त्रिषष्टिसहस्राणि रंजतजातरूपाङ्कस्फटिकबहुलमस्ति । तृतीयं काण्डं षट् त्रिंशत्सहस्राणि जाम्बूनदबहुलमस्ति । वैडूर्यघना चूलिकास्य चत्वारिंशत् योजनानि उच्छायेण मूले द्वादशविष्कम्भेण मध्येऽष्ट चोपरि चत्वारीति । तत्र च भद्रशालवनं वलयपरिक्षेपि मूले स्थितम् । तत्रतः भद्रशालवनात् पञ्चयोजनशतानि प्रारुह्य तावत् प्रतिक्रान्तिविस्तृतं नन्दनम् ।
ततः अर्धत्रिषष्टिसहस्राणि प्रारुह्य पञ्चयोजनशतप्रतिक्रान्तिविस्तृतमेव सौमनसम् । तत्रतोऽपि षत्रिंशत् सहस्राणि प्रारुह्य चतुर्नवति चतुःशतप्रतिक्रान्तिविस्तृतं पाण्डुकनामकवनमिति । नन्दनसौमनसाभ्यां एकादशैकादशसहस्राणि प्रारुह्य प्रदेशपरिहारिणविष्कम्भस्येति । अत्र प्राय सौवर्णमेव प्राप्यते । अत्रैकमन्यदपि