SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३।६ ] तृतीयोऽध्यायः [ २३ नरकेषु तेषु नारकारणां पराः स्थितयः भवन्ति । ताश्च यथा रत्नप्रभायां एकं सागरोपमं एवञ्च त्रिसागरोपमा सप्तसागरोपमा दशसागरोपमा सप्तदशसागरोपमा द्वाविंशतिसागरोपमा त्रयस्त्रिशति सागरोपमा । जघन्या तु पुरस्ताद् वक्ष्यते । अत्राशङ्कयते, कोदृशाः जीवाः केषु केषु नरकेषु अधिकतमा गच्छन्ति ? अस्योत्तरं भाष्यकारैः विवक्षितं यत् कर्मद्वाराणि श्रस्रवारिण । कर्मणां भेदानुसारं श्रास्रवाणां भेदाः भवन्ति । कैः कैः प्रास्रवैः कीदृशं कीदृशं कर्मबन्धनं भवति सर्वमपि विवक्षितं कर्मग्रन्थेषु । तत्र श्रस्रवैर्यथोक्तं र्नारिकसंवर्तनीयैः कर्मभिः प्रसंज्ञिनः प्रथमायां उत्पद्यन्ते, सरीसृपाः द्वयोरादितः प्रथम- द्वितीययोः । एवं पक्षिरणस्तिसृषु । सिंहाश्चतसृषु । उरगाः पञ्चसु । स्त्रियः षट्सु । मत्स्य - मनुष्याः सप्तस्विति । न तु देवा नारका वा नरकेषूपपत्ति प्राप्नुवन्ति । न हि तेषां बह्वारम्भपरिग्रहादयो नरकगति निर्वर्तका हेतवः सन्ति । नाप्युद्वर्त्य नारकाः देवेषु उत्पद्यन्ते । नहि एषां सरागसंयमादयो देवगतिनिर्वर्तका हेतवः सन्ति । उद्वतितास्तु तिर्यग्योनौ मनुष्येषु वोत्पद्यन्ते । मानुष्यं प्राप्य केचित् तीर्थङ्करत्वमपि प्राप्नुयुरादितस्तिसृभ्यः, निर्वाणं चतसृभ्यः, संयमं पञ्चभ्यः संयमासंयमं षड्भ्यः सम्यग्दर्शनं सप्तभ्योऽपीति । अन्यच्च कोऽपि देव वा नारकी मरणं प्राप्य नरकेषु न उत्पद्यते । अन्यच्च नारकभूमि सन्निवेशरचनादिषु अपि इत्थम् - द्वीपसमुद्रपर्वततालतडागसरोवराणि ग्रामनगरपत्तनादयः प्रदेशाश्च बादरो वनस्पतिकायश्च वृक्षतृणगुल्मादिः द्वीन्द्रियादयास्तिर्यग्योनिजा मनुष्याः देवाः चतुर्निकाया अपि न भवन्ति । अन्यत्र समुद्घातोपघातविक्रियासाङ्गतिकनरकपालेभ्यः । उपपातस्तु देवा रत्नप्रभायामेव भवन्ति । नान्यास गतिस्तृतीयां यावत् । सामान्यतया न कस्यापि नरकभूमिषु प्रवेशः जायते न च प्राप्यते । समुद्घातकी - अवस्थायामेव मानवस्यास्तित्वं तत्र भवति । तथैवोपातनारकी विक्रियालब्धियुक्ताः साङ्गतिकपूर्वजन्मस्नेही सुहृद् नरकपालाधार्मिकासुर कुमाराः सम्भाव्यन्ते नरकेषु । यच्च वायव श्रापो धारयन्ति न च विश्वग् गच्छन्त्यापश्च पृथिवीं धारयन्ति न च प्रस्फुरन्ति पृथिव्यश्चाप्सु विलयं न प्राप्नुवन्ति तत् तस्यानादि पारिणामिकस्य नित्यसन्ततेर्लोकविनिवेशितस्य लोकस्थितिरेव हेतुर्भवति । लोकविनिवेशमित्थं कथिनीभूतजलेनपृथिवीधारिता । जलं घनवातवलयैः घनवातं तनुवातवलयैश्च तनुवातवलयस्याधारहीनत्वम् । श्रात्मप्रतिष्ठं तत् ।
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy