________________
श्री तत्त्वार्थाधिगमसूत्रे
पादोनाष्टधनुः षडङ्गुलिप्रमारणकानि भवन्ति । शरीराणि क्रमशोद्विगुणं द्विगुणं भवन्ति । तद्यथा
१०
(१) प्रथमनार के
(२) द्वितीयनार के
(३) तृतीयनारके
(४) चतुर्थनारके
(५) पञ्चमनार के
(६) षष्ठनार के
[ ३।३
तत् पश्चात् स्थितानां नारक-जीवानां
७। ।। धनुः षडङ्गुलिः
१५ ।। धनुः द्वादशाङ्गुलिः ३१ । धनुः
६२ ।। धनुः
१२५ धनुः
२५० धनुः
(७) सप्तमनार के ५०० धनुश्च
इति प्रमाणकान नारकजीवानां शरीराणि भवन्ति ।
भवतः ।
वर्तते ।
प्रथम द्वितीय तृतीय नारकेषु उष्णवेदना भवति । चतुर्थनार के उष्ण - शीतवेदने पञ्चमनार के शीतोष्ण वेदने भवतः । षष्ठनारके सप्तमनारके च शीतवेदना
एकैकतोऽधिक तीव्रतर वेदना क्रमशो ज्ञातव्या ।
ग्रीष्मकाले प्रचण्डतापो भवति तदा मध्याह्नकाले चतुर्दिक्षु प्रत्यन्तमेव जाज्वल्य मानाऽग्नीनां चितिं कृत्वा मध्ये पित्तव्याधिमान् मनुष्यः समुपविशेत्, तस्य यादृक् तापो भवेत् [दुःखं स्यात् ] ततोऽप्यनन्तगुणं दुःखमुष्णवेदनायाः नारकजीवानां जायते ।
पौष-माघमासयोः शीतरात्रौ प्रोषकं पतति, शीतपवनञ्च वहति तादृश शीतसमये वह्निवस्त्ररहितस्य मनुष्यस्य शीतदुःखमुत्पद्यते ततोऽप्यधिकं नारकजीवानामनन्तगुणं दुःखं शीतवेदनायाः भवति । इमानुष्ण वेदना वेदनवतो नारकजोवान् तत उत्थाप्यात्रात्यन्तप्रज्वलिताग्नीनां शिखानां तदा तेषां शीतलच्छायासु सुप्तानामिव सुखानुभवो भविष्यति, निद्रां लप्स्यते, तथा शीतवेदना वेदनवतो नारकान् तत उत्थायात्र माघमासस्य रात्रौ श्रोषे मुञ्चति तदापि तेऽत्यन्तानन्दतो निद्रां लप्स्यन्ते, इत्थं नारकजीवानां दारुणं दुःखमस्ति ।
तेषां विक्रियापि अशुभतरास्ति । शुभमिच्छं कुर्वतोऽपि दुःखाऽशुभा विक्रिया भवति । तथा दुःखग्रस्तो भवन् यद्यपि दुःखस्य प्रतिकारं ( उपायं) कर्त्तुमिच्छति तदा विपरीतं महदुःखमुत्पद्यते नारकस्य ।। ३-३ ।