________________
१३)
सम्प्रति मलयगिरिमहाशयस्य टीका न समुपलभ्यते । महामहोपाध्यायेन श्रीयशोविजयवाचकेन तत्त्वार्थ भाष्यस्य टीका रचितासीत् । सा टीकापि स्खलिता
वर्तते ।
तत्त्वार्थस्य रचनाशैली रम्या हृदयंगमा च अस्यैव ग्रन्थस्य सौम्यस्वरूपेण तपस्विना श्रीसुशीलसूरिमहाभागेन टीका नवीना रचिता । अयमेव सूरिमहोदयः स्वाध्याय निष्ठः सुज्ञः सर्वथा तपसि ज्ञाने च नितरां निमग्नः वर्तते ।
सूरिपुंगवानां श्रुतशास्त्रीयां भक्ति पुरस्कृत्य मया किमपि लिखितमस्ति । नितरां शास्त्ररसस्नातनिष्णाताः भूत्वा भूयोभूयः स्वाध्यायसमुत्कर्षं समुन्नतं कर्तुं लेखनीं च लोकोत्तरहितैषिणीं विदधातु विधिज्ञाः सूरिवराः सुतरां भूयासुः । आत्मलेखनाचात्मलेखिनो स्वात्महस्तगता सुशोभते सर्वथा सर्वेषां ।
इदं तत्त्वार्थसूत्रं श्रुतसिद्धान्तनिष्पन्नं, संसारक्षयकारणं, मुमुक्षूणां चात्मपथपाथेयं सदार्हत्पादपीयूषं ज्ञानदर्शनचारित्रलालिते स्वाध्याय - तपः समाधिविभूषितं, प्रमेयप्रकाशपुंजं पुरातनी पावनी - देववाणी-दुन्दुभिरूपं, शब्दब्रह्मपाँचजन्यं, गुरुसेवासमुपलब्धसौष्ठवतन्यं, यः कश्चित् समुचितां श्रमण संस्कृति ज्ञातु कामः सः शुद्धचेतसा च सुमेधया सततं पठेत्-पाठयेत् चैनं सूत्रं ।
सूत्रमेतत् शास्त्रज्ञनिष्ठानां नियामकं, निर्ग्रन्थ सिद्धान्तसारकलितं निगमागमन्यायनिर्मथितम् । विद्याविवेक-शौर्य-धैर्य-धनम् । नित्यं सेव्यं ध्येयं परिशीलनीय च ।
अजस्रमभ्यासमुपेयुषा विद्यावता सूत्रकारेण श्रात्मन: स्मृतिपटलात् पटीयांसं शिक्षा संस्कारसमभिरुढं गोत्रगौरवं न त्यक्तं । यद्यपि जातिकुलवित्तमदरहितं श्रामण्यं स्वीकृतं ।
सूत्रकारस्य महती सूक्ष्मेक्षिका वर्तते - यथा - " निःशल्यो व्रती" या व्रतत्ववृत्तिता सा निःशल्यतायुक्ता स्यात् । यस्य शल्यत्वं छिन्न तस्य श्रामण्यं संसिद्धं । इत्थमनेकैः सूत्रैः स्वात्मनः सुधीत्वं साधितं ख्यापितं च । इति निवेदयति
महाशिवरात्रि,
२ मार्च, १६६२ हरजी
श्रीविद्यासाधकः
पं. गोविन्दरामः व्यासः हरजी- वास्तव्यः