________________
( १० )
तत्त्वार्थाधिगमे दशाध्यायाः सन्ति येषु विशदीकृतं व्याख्यातञ्च जैनतत्त्वदर्शनम् । तत्त्वार्थाधिगमस्य संस्कृत हिन्दीभाषायां व्याख्यायितोऽयं ग्रन्थः विद्वमूर्धन्याचार्यः श्री विजय सुशीलसूरीश्वर जैनदर्शन साहित्ये महोदयैः अतीवोपादेयत्वं धार्यते । शताधिकग्रन्थानां रचयिता श्रीमद्विजयसुशीलसूरीश्वरः दर्शनशास्त्राणां प्रतीवमेधावी विद्वान् वर्तते ।
-
उर्वरीक्रियतेऽनेन भवमरुधराऽखिलमण्डलम् । जिनशासनञ्च स्वतपतेज-व्याख्यानलेखन - पीयूषधारा जीमूतमिव श्रीमद्विजयसुशीलसूरीश्वरेण प्रथमेऽध्याये मोक्षपुरुषार्थसिद्धये निर्दोषप्रवृत्तिश्च तस्या जघन्यमध्यमोत्तरस्वरूपं विशदीकृतमस्ति -
(१) देवपूजनस्यावश्यकता तस्य फलसिद्धिः ।
(२) सम्यग्दर्शनस्य स्वरूपं तथा तत्त्वानां व्यवहारलक्षणानि ।
(३) प्रमाणनयस्वरूपस्य वर्णनम् ।
(४) जिनवचनश्रोतॄणां व्याख्यातृरणाश्च फलप्राप्तिः । ग्रंथव्याख्यान प्रोत्साहनम् ।
( ५ )
(६) श्रेय मार्गस्योपदेश: सरलसुबोधटीकया विवक्षितः ।
अस्य ग्रंथस्य टीका प्राचार्यप्रवरेण समयानुकूल मनोवैज्ञानिक विश्लेषणेन महती प्रभावोत्पादका कृता । आचार्यदेवेन तत्त्वार्थाधिगमसूत्रसदृशः क्लिष्ट विषयोऽपि सरलरीत्या प्रबोधितः। जनसामान्यबुद्धिरपि जनः तत्त्वविषयं श्रात्मसात्कतु शक्नोति ।
अस्मिन् भौतिकयुगे सर्वेऽपि भौतिकैषरणाग्रस्ता मिथ्यासुखतृष्णायां व्याकुलाः मृगो जलमिव भ्रमन्ति श्रात्मशान्तये । आत्मशान्तिस्तु भौतिकसुखेषु असम्भवा । भवाम्भोधिपोत रिवायं ग्रन्थः मोक्षमार्गस्य पाथेयमिव सर्वेषां तत्त्वदर्शनस्य रुचि प्रवर्धयति । आत्मशान्तिस्तु तत्त्वदर्शनाध्ययनेनैव वर्तते न तु भौतिकशिक्षया । एतादृशी सांसारिकीविभीषिकायां श्राचार्य महोदयस्यायं ग्रन्थः संजीवनीवोपयोगित्वं धार्यते संसारिणाम् । ज्ञानजिज्ञासुनां कृते ग्रन्थोऽयं शाश्वतसुखस्य पुण्यपद्धतिरिव मोक्षमार्ग प्रशस्तिकरोति ।
श्राशासेऽधिगत्य ग्रन्थोऽय पाठकाः स्वजीवनं ज्ञानदर्शनचारित्रमयं कृत्वाऽनुभविष्यन्ति अपूर्वंशान्तिमिति शुभम् ।
फाल्गुन शुक्ल पूर्णिमा [ जालोर (राजस्थान )
- पं. हीरालाल शास्त्री, एम. ए. व्याख्याता संस्कृत