________________
५२ ] श्रीतत्त्वार्थाधिगमसूत्र
[ १२३ कमवधिज्ञानं, [४] हीयमानकमवधिज्ञानं, [५] अनवस्थितमवधिज्ञानं, [६] अवस्थितमवधिज्ञानं चेति ।
तत्र-(१) अनुगामिकमवधिज्ञानं यथा-यस्य जीवस्य यस्मिन् क्षेत्रे क्वचिदुत्पन्न क्षेत्रान्तरगतस्यापि न प्रतिपतति साकं सहवासी एव ज्ञानं तद् 'अनुगामिकमवधिज्ञान' कथ्यते । तस्योदाहरणम्-सूर्यस्य प्रकाशवत् ।
(२) अननुगामिकमवधिज्ञानं यथा-यस्य जीवस्य यस्मिन् क्षेत्र स्थितस्योत्पन्न ज्ञानं ततः प्रच्युतस्य प्रतिपतति तद् 'अननुगामिकमवधिज्ञान' कथ्यते । गमनसमये साकं न आगच्छतीति तस्योदाहरणम्-प्रश्नादेशपुरुषज्ञानवत् ।।
(३) वर्धमानकमवधिज्ञावं यथा-यदगुलस्यासङ्घय यभागादिषु उत्पन्नं ज्ञानं वर्द्ध ते एव तद् 'वद्ध मानकमवधिज्ञानं' कथ्यते । तस्योदाहरणम्-अधरोत्तरारणिसंघर्षणोत्पन्नाग्निज्वाला शुष्क पत्रादीन्धनसमूहाग्निवत् ।
(४) हीयमानकमवधिज्ञानं यथा-असंख्येयद्वीप-समुद्र-पृथिवी-विमानेषु तिर्यगूर्ध्वमधो यदुत्पन्नं ज्ञानं क्रमशः संक्षिप्यमाणं न्यूनं प्रतिपतति । आ अगुलासङ्ख्ययभागात् प्रतिपतत्येव वा भवति तद् 'हीयमानकमवधिज्ञानं' कथ्यते । तस्योदाहरणम्परिच्छिन्नेन्धनोपादानसन्ततिवह्निशिखावत् ।
(५) अनवस्थितं (प्रतिपाती) अवधिज्ञानं यथा-अनियमितं अर्थात् हीयते वर्धते च वर्धते हीयते च प्रतिपतति चोत्पद्यते इति, तद् अनवस्थितं (प्रतिपाती) अवधिज्ञानं कथ्यते। तस्योदाहरणम्-उत्पद्यते चेति पुनः पुनरूमिवत् ।
(६) अवस्थितं (अप्रतिपाती) अवधिज्ञानं यथा-निश्चितं, अर्थाद् यावति क्षेत्र येन आकारेण उत्पन्नं भवति ततो न प्रतिपतत्याकेवलज्ञानं प्राप्तेः आ भवक्षयाद् वा जन्मान्तर-स्थायि वा भवति तद् 'अवस्थितमवधिज्ञानं' या 'अप्रतिपातीमवधिज्ञानं' कथ्यते। तस्योदाहरणम्-लिङ्गवत् (चिह्नवत्) ।। २३ ॥
* सूत्रार्थ-यथोक्तनिमित्त अर्थात् क्षयोपशमनिमित्तक अवधिज्ञान के छह भेद हैं। शेषाणाम्-अर्थात् तिर्यग् और मनुष्यों में क्षयोपशमजन्य अवधिज्ञान छह प्रकार का होता है-(१) अनुगामी, (२) अननुगामी, (३) वर्धमान, (४) हीयमान, (५) अनवस्थित या प्रतिपाती तथा (६) अवस्थित या अप्रतिपाती। ये सब भेद मनुष्यों और तिर्यंचों में पाये जाते हैं ।। २३ ॥