________________
१।२० ] प्रथमोऽध्यायः
[ ४७ [१] आचाराङ्ग, [२] सूत्रकृताङ्ग, [३] स्थानाङ्ग, [४] समवायाङ्ग, [५] व्याख्याप्रज्ञप्त्यङ्ग (भगवत्यङ्ग, पञ्चमाङ्ग), [६] ज्ञाताधर्मकथाङ्ग, [७] उपासकदशाङ्ग, [८] अन्तकृद्दशाङ्ग, [६] अनुत्तरौपपातिकदशाङ्ग, [१०] प्रश्नव्याकरणाङ्ग, [११] विपाकाङ्ग, [१२] दृष्टिवादाङ्ग चेति द्वादशविधान्यङ्गसूत्राणि ।
अत्राह-मतिज्ञान-श्रुतज्ञानयोः परस्परं को भेदः ? इति दर्श्यते । उत्पन्नो भवन् विनाशमलभमानः एतादृशो यः पदार्थः तद्ग्राहि वर्तमानकालविषयकं मतिज्ञानं भवति । श्रुतज्ञानं तु त्रिकालविषयकं अर्थात् यः पदार्थः उत्पन्नोऽस्ति, एवं यश्च उत्पद्यविनाशं प्राप्तः तथा यः उत्पत्स्यते इति त्रयाणां ग्रहणं करोति ।
अधुना अङ्गबाह्य अङ्गप्रविष्टे च परस्परं को भेदः ? इति दर्श्यते । वक्तृ णां भेदेन इदं द्विविधम् । तद्यथा-सर्वज्ञेन सर्वदशिना परमर्षिणा अर्ह-अरिहन्तेन भगवता परमशुभ-तीर्थप्रवर्तनरूपफलदायक तीर्थङ्करनामकर्मणः प्रभावेन यद् कथितं तथाऽतिशयोवच्च एवमुत्तमातिशयवद् वाणी बुद्धिमद्भिः भगवतां शिष्यैः गणधरैः यद् संग्रथितं सन्निबद्ध तद् अङ्गप्रविष्टं भवति । गणधरानन्तरं ये अत्यन्तविशुद्धागमज्ञानवन्तः, परमप्रकृष्टवाणीबुद्धि शक्तिमन्तः प्राचार्याः कालस्य संघयणस्य प्रायुषश्च दोषेण ये अल्पशक्तिमन्तः शिष्याः तेषां उपकाराय यद् रचितवन्तः तद् अङ्गबाह्यमिति । सर्वज्ञप्रणीतत्त्वेन ज्ञेयपदार्थानामानन्तेन च मतिज्ञानापेक्षया श्रुतज्ञानं महद्विषयकं भवति । श्रुतज्ञानस्य महाविषयकत्वेन तद् तद् अधिकाराश्रयणेन च प्रकरणसमाप्त्यपेक्षया अङ्ग उपाङ्गस्य भेदोऽस्ति अङ्गोपाङ्गयोः रचना न स्याद् तदा समुद्रसंतरणमिव सिद्धान्तस्य ज्ञानं दुःसाध्यं स्यात् । अतः पूर्व, वस्तु, प्राभृतं, प्राभृतप्राभृतं, अध्ययन, उद्देशश्च कृता सन्ति ।
पुनः अत्र शिष्यः शङ्कां करोति-यत् मतिज्ञानं श्रुतज्ञानं एकविषयं अस्ति, तेन द्वयोः विषयः एक एव भवति । तदा गुरोः प्रत्युत्तरं ददाति । यत् पूर्वोक्तकथनानुसारं मतिज्ञानं वर्तमानकालविषयकं भवति । श्रुतज्ञानं तु त्रिकालविषयकं भवति । श्रुतज्ञानं तु त्रिकालविषयकं इत्यनयोः भेदः । एवमेव मतिज्ञानापेक्षया श्रुतज्ञानं विशुद्धतरं इत्यपि तस्माद् भेदः । पुनश्च मतिज्ञानं इन्द्रियानिन्द्रियनिमित्तक, तथा
आत्मनः ज्ञस्वभाव्यात् पारिणामिकं भवति । श्रुतज्ञानं तु मतिपूर्वकं प्राप्तपुरुषाणां सदुपदेशाद् भवतीत्यर्थः ।। २० ।।