________________
प्रथमोऽध्यायः
[ २५
(२) सङ्ख्या - विवक्षितपदार्थस्य अथवा तस्य स्वामिनः कतिपय सङ्ख्याऽस्ति । तस्य विचारणा अस्य सङ्ख्याप्ररूपणाद्वारस्य प्रयोजनमस्ति । अत्राह-कियत् सम्यग्दर्शनम् ? किं सङ्ख्यं यं असङ्ख्ये यं, अनन्तमिति ? तदुच्यते-असङ्ख्य यानि सम्यग्दर्शनानि सन्ति, किन्तु सम्यग्दृष्टयस्तु अनन्ताः सन्ति एव ।
१८]
(३) क्षेत्रम् - विवक्षिततत्त्वं अथवा तस्य स्वामी कतिपयक्षेत्रे भवति ? एतद् क्षेत्रप्ररूपणाद्वारात् ज्ञायते । अत्राह - सम्यग्दर्शनं कियतिक्षेत्रे वर्त्तते ? तदुच्यते । लोकस्यासङ्ख्ययभागे वर्त्तते ? अर्थात् सम्यग्दर्शनवान् एकजीवस्य अनेकजीवस्य वा क्षेत्रलोकस्याऽसङ्ख्यातमो भागो हि अस्ति ।
(४) स्पर्शनम् - विवक्षिततत्त्वं अथवा तस्य स्वामी कतिपयक्षेत्रं स्पर्शनम् ? तस्य ज्ञानं एतद् स्पर्शनप्ररूपणाद्वारात् भवति । अत्राह - 'सम्यग्दर्शनं किं स्पृष्टस्पर्शनम् ?' सम्यग्दर्शनं लोकस्याऽसङ्ख्येयभागः स्पर्शनं करोति । अत्र सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेषः ? द्वयोः अपाय - सद्द्रव्यापेक्षायाः अन्तरमस्ति । सम्यग्दर्शनमपाय आभिनिबोधिकरूपमस्ति । तद् योगात् सम्यग्दर्शनं केवलिनो नास्ति । तस्माद् सम्यग्दर्शनी केवली नास्ति । सम्यग्दृष्टिस्तु सद्द्रव्यरूपमस्ति । तद् योगात् सम्यग्दृष्टिः केवली कथितमस्ति ।
(५) कालः - विवक्षिततत्त्वं कियन्तं कालम् ? तस्य विचारणा एतद् कालप्ररूपणाद्वाराद् भवति । अत्राह - सम्यग्दर्शनं कियन्तं कालम् ? तदुच्यते । कालस्य परीक्षा प्ररूपणा वा द्विधा भवति । तद् एकजीवस्यापेक्षया नानाजीवानामपेक्षयाश्च परीक्ष्यम् । तद्यथा - एकं जीवं प्रति जघन्येन अन्तर्मुहूर्त्तम्, उत्कृष्टन षट्षष्ठिः सागरोमारि साधनानि तथा अनेक जीवान् प्रति सर्वाद्धाकालमर्यादा सम्यग्दर्शनस्य सन्ति । अर्थात् सम्यग्दर्शनं नित्यमेव विद्यते ।
(६) अन्तरम् - विवक्षिततत्त्वस्य प्राप्त्यनन्तरं तस्य वियोग कियन्तं कालपर्यन्तं भवेत् ? तस्य ज्ञानं एतद् अन्तरप्ररूपणा द्वारात् भवति । अत्राह - सम्यग्दर्शनस्य को विरहकालः ? तदुच्यते । एकं जीवं प्रति जघन्येन अन्तर्मुहूर्त्तम्, तथा उत्कृष्टेन देशोनार्धपुद्गलपरावर्त्तपर्यन्तं विरहकालः सम्यग्दर्शनस्येति ।
( ७ ) भावः - प्रपशमिकादिपञ्चभावेभ्यः कतमो भावो विवक्षिततत्त्वं भवेत् ? तस्य विचारणा, एतद् भावप्ररूपणाद्वाराद् भवति । अत्राह - सम्यग्दर्शनं श्रपशमि