________________
नानाशास्त्रसमुत्थयुक्तिनिवहैः प्रज्ञाजुषां संसदि, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।। __ भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नास्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः ।
पीत्वानन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।५। __ यो दूरं विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते सदा सन्मतिम् ।
भक्त्या सगुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।।
अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधरनिर्घोषं विफलीकरोति वचसां घोषो महान् यस्य वै ।
नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।७।
धीमाँस्तत्पदपद्मयुग्ममधुलिड् वादीभकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिविज्ञानिचूडामाणिः ।
विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्।।।
FE.FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
कृतकर्मविनाशाय वासाय शिवसद्मनः
चतुरविजयेनैत-दकृताऽमलमष्टकम् ॥ ९॥"