________________
..........XXX...
COCODYXYXXX..comXXXKX
(***••* X *•••••• X X X *•**••* *•·····XXXXX
प्रतापस्य स्थानं वसतिममलां धर्म्मनृपतेः । गृहं सन्तोषस्याऽमलगुणततेर्वासभवनमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ४ ॥ प्रबोधं भव्यानां दददमृतगुर्योऽमलकला, निवासस्तेजस्वी जगति विचरन् शुद्धहृदयः ।
हयाङ्गाङ्केन्द्वद्वे(१९५७) लभत पदवीं नष्टदुरित, उपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ५ ॥ पटिष्ठं सिद्धान्ते मुनिजनगरिष्ठं च विदुषां वरिष्ठं श्रीश्रेष्ठं विमलगुणजुष्टं सुमनसम् ।
"
हरन्तं द्राघिष्ठां भवजलधिमीतिं भवभुतामुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ६ ॥ विहायाङ्गस्नेहं सकलजनताक्षामणविधिं, विधायानन्दाप्तो विमलतपसा यो गुणनिधिः ।
शराश्वाङ्कक्षोणिप्रमिति (१९७५) शरदि स्वर्गमगम दुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ७ ॥
यदीया ननर्तेन्दु | किरणसमूहातिविमला, जगत्यां सत्कीर्त्तिर्भविजनहृदानन्दकरणी ।
गुणाम्भोधि विद्यालयममृतवाचं मुनिपतिमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ८ ॥
,,
" अमरविजयपादाम्भोजभृङ्गायमान
तुरविजय एतत् पौषकृष्णस्य षष्ठयाम् ।
रसमुनिनिधि चन्द्रे (१९७६)ब्देऽष्टकं वैक्रमीये, दिनकरदिवसे सद्भक्तिरागाञ्चकार ॥ ९ ॥
"
*************** XXX) ***...
Xxxcomice Dfc........XXX..XXXCX
motio • *•******