________________
KKCHR ME CHORE बू
*** U ****
FEEFEC
उपाध्याय - श्रीमद्-वीरविजयमुनिपुंगव -
EEEEEEG 密
गुणस्तुत्यष्टकम् ।
" शिखरिणीवृत्तम् "
भबोदन्वन्मज्जद्भविजनतते रक्षणकृते, श्रियोपेतं जन्माश्रयत विबुधासेव्यचरणः ।
गजाम्राङ्केन्द्रद्वे (१९०८) हरि रिख मुनिर्यः क्षितितल, उपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ १ ॥
यदीयं सौभाग्यं शुभमकथनीयं च वचसा, यदीयं वैराग्यं त्रिभुवनजनाश्चर्यजनकम् । यदीयं सद्भाग्यं भवजलधिनिस्तारचतुरमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ २ ॥
(EXC
गृहं कारागारं मनसि युवतिं बन्धनमिव, विभाव्याशु त्यक्त्वा कनकनिकरं लोष्ठमिव यः ।
व्रतं लेभेऽङ्गाऽग्न्यङ्कशशि(१९३५) शरदि प्रोज्ज्वलतपा, उपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ३ ॥ कलाकेलिस्थानं सुमतिनिलयं क्षान्तिसदनं,