________________
13999999999999999999999999999999999999999999
GEEEEEEEEEEE GEE ZEEEEE
यशोभिर्दिङ्नागान् व्यजयत मरालं च गतिना, सुभक्त्या तं बन्दे विजयकमलाचार्यमनिशम् ॥४॥ हिमक्ष्माभृत्पुत्रीचरणनत भूतेशमुकुटपतद्गङ्गाधाराभरधवलबालेन्दुकररुक् । यशो विश्वे यस्य स्फुरति सततं तं श्रुतनिधिं, सुभक्त्या वन्दे श्रीविजयकमलाचार्य मनिशम् ॥५॥
सुराली संकल्प स्फुरदमरधेनुस्तनयुगक्षरत्क्षीरश्रेणीरुचिरुचिरमाभाति वचनम् । यदीयं विश्वेऽस्मिन् सकलसुखसन्तानजननं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥६॥ शिवास्वामिस्फूर्जन्मुकुटरजनीनाथ किरणवितानोद्योतिश्रीस्फटिकशिखरस्पर्द्धि सुतराम् । यशो यस्यात्यन्तं धवलयति दिङ्नागनिकरं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥७॥ नवीनादित्यांशुस्फुटबलभिदाशाक्षितिघरशिरःस्मेराशोकाङ्कुरनिकरविभ्राजि जगति ।
पुनीते भव्यान् यच्चरणकमलद्वन्द्वममलं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥ ८॥
Ø
" गुणश्रीपाथोधेरमरविजयस्याऽमलमतेः, क्रमाम्भोरुट्सेवाकरणचतुरो हृष्टहृदयः । हयाश्वाङ्केन्द्वद्वे/१९७७) चतुरविजयः पावनहृदो - Sकृताऽऽचार्यस्य श्रीविजयकमलस्याऽष्टकमिदम् ॥ ९॥"
1911199999999999999999999999
#FF66FFR÷÷÷6******************666666666E: #F66266 *** ************