________________
- (१४१) निष्क्रान्तं तप्तहमाभं, वितते शङ्कराश्रमे । तस्मिन् सरो महज्जातं, विमलं बहुयोजनम् ॥ २८॥ प्रोत्फुल्लहेमकमलं, नानाविहगनादितम् । तच्छ्रुत्वा तु ततो देवो, हेमद्रुमं महाजलम् ॥ २९ ॥ तत्र कृत्वा जलक्रीडां, तदन्जकृतशेखरा । उपविष्टास्ततस्तस्य, तोरे देवी सखीयुता ॥ ३० ॥ पातुकामा च तत्तोयं, स्वादु निर्मलपंकजम् । अपश्यन् कृत्तिकाः स्नाताः, पडद्युतिसन्निभम् ॥ ३१ ॥ पद्मपत्रे तु तद्वारि, गृहित्वोपस्थिता गृहम् ॥ हर्षादुवाच पश्यामि, पद्मपत्रे स्थितं पयः ॥ ३२ ॥
ततस्ता ऊचुरखिलं, कृत्तिका हेमशैलजाम् । कृत्तिका ऊचुःदास्यामो यदि ते गर्भ-संभूतो यो भविष्यति ॥ ३३ ॥ सोऽस्माकमपि पुत्रः स्या-दस्मन्नाम्ना च वर्त्तताम् । भवेल्लोके सुविख्यातः, सर्वेष्वपि शुभानने ॥ ३४ ॥ इत्युक्तोवाच गिरिजा, कथं मद्गात्रसंभवः ।। सर्वैरवयवैर्युक्तो, भवतीभ्यः सुतो भवेत् ॥ ३५ ॥ ततस्तां कृत्तिका ऊचु-विधास्यामोऽस्य वै वयम् । उत्तमान्युत्तमांगानि, यद्येवं तु भविष्यति ॥ ३६ ॥ उक्ता वै शैलजा माह, भवत्वेवमनिन्दिताः । ततस्ताः हर्षसम्पूर्णाः, पद्मपत्रस्थितं पयः ॥ ३७ ।। तस्यै ददुस्तया चापि, तत्पीतं क्रमशो जलम् । पोते तु सलिले तस्मि-स्ततस्तस्मिन् सरोवरे ॥ ३८ ॥