________________
પરિશિષ્ટ-૧
५८3
तद्भावाव्ययं नित्यम् ॥ ५-३०॥ भा०-यत्सतो भावान्न व्येति न व्येष्यति तन्नित्यमिति ॥३०॥
अर्पितानर्पितसिद्धेः ॥ ५-३१॥ ___ भा०-सच्च त्रिविधमपि नित्यं च उभे अपि अर्पितानर्पितसिद्धेः, अर्पितं व्यावहारिकमर्पितमव्यावहारिकं चेत्यर्थः, तच्च सच्चतुर्विधम्, तद्यथा-द्रव्यास्तिकं मातृकापदास्तिकमुत्पन्नास्तिकं पर्यायास्तिकमिति, एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत्, असन्नाम नास्त्येव द्रव्यास्तिकस्य । मातृकापदास्तिकस्यापि, मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत्, अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वा असत् । उत्पन्नास्तिकस्य, उत्पन्नं वोत्पन्ने वोत्पन्नानि वा सत्, अनुत्पन्नवाऽनुत्पन्नेवाऽनुत्पन्नानि वाऽसत् । अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा, पर्यायास्तिकस्य सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत्, असद्भावपर्याये वा असद्भावपर्याययोर्वा असद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वाऽसत्, तदुभयपर्याये वा तदुभयपर्याययोर्वा तदुभयपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा न वाच्यं सदित्यसदिति वा, देशादेशेन विकल्पयितव्यमिति ॥३१॥
अत्राह-उक्तं भवता जघन्यगुणवर्जानां स्निग्धानां रूक्षेण रूक्षाणांच स्निग्धेन सह बन्धो भवतीति, अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति ?, अत्रोच्यते, न जघन्यगुणानामित्यधिकृत्येदमुच्यते ॥
भा०-अत्राह-उक्तं भवता 'संघातभेदेभ्यः स्कन्धा उत्पद्यन्ते' इति, तकि संयोगमात्रादेव संघातो भवति ? आहोस्विदस्ति कश्चिद्विशेष इति ?, अत्रोच्यते, सति संयोगे बद्धस्य संघातो भवतीति ?
अत्राह-अथ कथं बन्धो भवतीति अत्रोच्यते
स्निग्धरूक्षत्वाद् बन्धः ॥५-३२॥ भा०-स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोर्बन्धो भवतीति ॥३२॥
न जघन्यगुणानाम् ॥ ५-३३ ॥ भा०-जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवतीति ॥३३॥
अत्राह-उक्तं भवता जघन्यगुणवर्जानां स्निग्धानां रूक्षेण रूक्षाणांच स्निग्धेन सह बन्धो भवतीति, अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति ? अत्रोच्यते, न जघन्यगुणानामित्यधिकृत्येदमुच्यते ।
गुणसाम्ये सदृशानाम् ॥ ५-३४॥ भा०-गुणसाम्ये सति सदृशानां बन्धो न भवति, तद्यथा-तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति ।