SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ ૫૯૧ परत्वापरत्वे त्रिविधं- प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानं अपरः अधर्मः अपरमज्ञानमिति, क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भवति सन्निकृष्टोऽपरः, कालकृते द्विरष्टवर्षाद्वर्षशतिक: परो भवति, वर्षशतिकाद्विरष्टवर्षोऽपरो भवति । तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकार इति ॥२२॥ अत्राह- उक्तं भवता शरीरादीनि पुद्गलानामुपकार इति, पुद्गला इति च तन्त्रान्तरीया जीवान् परिभाषन्ते, स्पर्शादिरहिताश्चान्ये, तत्कथमेतदिति, अत्रोच्यते, एतदादिविप्रतिपत्तिप्रतिषेधार्थं विशेषवचनविवक्षया चेदमुच्यते स्पर्श-रस-गंध-वर्णवन्तः पुद्गगलाः ॥५-२३ ॥ भा०-स्पर्शः रसः गन्धः वर्ण इत्येवं लक्षणाः पुद्गला भवन्ति । तत्र स्पर्शोऽष्टविधः-कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्निग्धः रूक्ष इति, रस पञ्चविधः-तिक्तः कटुः कषायोऽम्लो मधुर इति, गन्धो द्विविधः-सुरभिरसुरभिश्च, वर्णः पञ्चविधः-कृष्णो नीलो लोहितः पीतः शुक्ल इति ॥२३॥ किञ्चान्यत्शब्द-बन्ध-सौम्यं-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योतवन्तश्च ॥ ५-२४ ॥ भा०-तत्र शब्दः षड्विधः-ततो विततो घनः शुषिरो संघर्षो भाषा इति । बन्धस्त्रिविधः प्रयोगबन्धो विस्रसाबन्धो मिश्र बन्ध इति, स्निग्धरूक्षत्वाद्भवतीति वक्ष्यते । सौक्ष्यं द्विविधम्- अन्त्यमापेक्षिकं च, अन्त्यं परमाणुष्वेव, आपेक्षिकं च द्यणुकादिषु संघातपरिणामापेक्षं भवति, तद्यथा-आमलकाबदरमिति । स्थौल्यमपि द्विविधम् अन्त्यमापेक्षिकं च, संघातपरिणामापेक्षमेव भवति, तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवति, आपेक्षिकं बदरादिभ्य आमलकादिष्विति । संस्थानमनेकविधम्दीर्घहस्वाद्यनित्थंत्वपर्यन्तम् । भेदः पञ्चविध: औत्कारिकः चौर्णिकः खण्डः प्रतरः अनुतट इति । तमश्छायातपोद्योताश्च परिणामजाः । सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवंतीत्यतः पुद्गलास्तद्वन्तः ॥ अत्राह-किमर्थं स्पर्शादीनां च पृथक्सूत्रकरणमिति ?, अत्रोच्यते-स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्ति । शब्दादयस्तु स्कन्धेष्वेव भवन्त्यनेकनिमित्ताश्चेत्यतः पृथक्करणम् ॥२४॥ त एते पुद्गलाः समासतो द्विविधा भवन्ति, तद्यथा
SR No.022527
Book TitleTattvarthadhigam Sutra Pancham Adhyaya Vivechan
Original Sutra AuthorN/A
AuthorVikramsuri, Naypadmashreeji
PublisherShrutnidhi
Publication Year2003
Total Pages606
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy