________________
८०
જેનદર્શનના મહત્ત્વના સિદ્ધાંતો
પુદ્ગલોથી ઉત્પન્ન અકારાદિ વર્ણ છે. સંકેતથી યુક્ત પદ કહેવાય છે અને પરસ્પરની અપેક્ષા કરવાવાળા પદોનો સમુહ વાક્ય કહેવાય छ(23).
નૈયાયિકો વર્ણોને આકાશનો ગુણ માને છે. મીમાંસક કુમારિલ ભટ્ટના અનુગામીઓ વર્ણોને નિત્ય અને વ્યાપક દ્રવ્ય માને છે. સાંખ્યના અનુયાયીઓ વર્ણને અહંકાર નામના તત્ત્વથી ઉત્પન્ન થયેલ કહે છે. સાંખ્યના અનુસાર પ્રકૃતિથી મહત્ તત્ત્વ, મહત્ તત્ત્વમાંથી અહંકાર અને અહંકારમાંથી શબ્દ ઉત્પન્ન થાય છે. તે શબ્દ તન્માત્ર કહેવાય છે.
23. आप्तं प्ररूप्य तद्वचनं प्ररूपयन्ति - वर्ण-पद-वाक्यात्मकं वचनम् ।।८।। तत्र वर्णं वर्णयन्ति - अकारादिः पौगलिको वर्ण: ।।९।।
पुद्गलै:-भाषावर्गणापरमाणुभिरारब्धः पौगलिकः। एतेन वर्णनित्यत्ववादिनो मीमांसकाः, गगनगुणत्ववादिनो नैयायिकाश्च निरस्ता वेदितव्याः, तथाहि-वर्णानामुत्पत्ति-विनाशयोः प्रत्यक्षेण वीक्ष्यमाणत्वान्नित्यत्वं न सम्भवति, न च 'सोऽयं गकारः' इति प्रत्यभिज्ञाबलाद् वर्णानां नित्यत्वं सिध्यति, अस्याः प्रत्यभिज्ञायाः ‘सेयं दीपज्वाला' 'तदेवेदमौषधम्' इत्यादिवत् सजातीयविषयत्वेन भ्रान्तत्वात्। एवं 'शब्दो न गगनगुणः, अस्मदादिप्रत्यक्षत्वाद् रूपादिवत्' इत्यनुमानबाधितत्वाद् गगनगुणत्वमपि न सिध्यति, तस्माद् द्रव्यरूपेण नित्यत्वात् पर्यायरूपेण चानित्यत्वाच्छब्दस्य नित्यानित्यत्वमेवावगन्तव्यम्।
___ पौद्गलिकत्वं चास्य ‘वर्ण: पौगलिकः मूर्तिमत्त्वात्, पृथिव्यादिवत्' इत्यनुमानसिद्धम्, न च मूतिमत्त्वमसिद्ध, स्पर्शवत्त्वेन हेतुना तत्र तस्य सिद्धत्वात, न च स्पर्शवत्त्वमपि शब्दस्याऽसिद्ध, कर्णशष्कुल्यां स्पर्शस्यानुभूयमानत्वात् तस्य स्पर्शवत्त्वसिद्धेः, अन्यथा कथमिवोत्कटशब्दश्रवणेन बालकादीनां कर्णोपघातो भवेत्? भवति चायं कर्णोपघातः, तस्मात् शब्दस्य स्पर्शवत्त्वं नाऽसिद्ध, सिद्धे च स्पर्शवत्त्वे शब्दस्य मूर्तिमत्त्वसिद्धिः, तेन च पौद्गलिकत्वसिद्धिरिति दिक् ।।९।। पदवाक्ये व्याकुर्वन्ति - वर्णानामन्योऽन्यापेक्षाणां निरपेक्षा संहतिः पदं, पदानां तु वाक्यम् ।।१०॥
वर्णानामकारादीनां, अन्योऽन्यापेक्षाणां-पदार्थप्रतिपत्तौ परस्परसहकारितया वर्तमानानाम्, निरपेक्षा-पदान्तरवर्तिवर्णनिरपेक्षा-संहतिः-संघात: पदमभिधीयते। एवमेव पदानां वाक्यार्थप्रतिपत्तौ परस्परसहकारितया स्थितानां वाक्यान्तरवर्तिपदनिरपेक्षा संहतिः वाक्यमित्युच्यते ।।१०।।