________________
પ્રમાણ
७८
આપ્તનું સ્વરૂપ :
__ यथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्तः, वर्णपदवाक्यात्मकं तद्वचनम्(22)।
અર્થ - જે પુરૂષ અર્થના વાસ્તવિક જ્ઞાનને જાણીને હિતનો ઉપદેશ કરવામાં કુશળ છે તે આપ્ત છે. તેમનું વચન વર્ણ, પદ અને વાક્યસ્વરૂપ डोय छे.
22. आप्तस्वरूपं प्ररूपयन्ति - अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः ।।४।। कस्मादमूदृशस्यैवाप्तत्वमित्याहु:तस्य हि वचनमविसंवादि भवति ।।५।। हि-यस्मात् तस्य आप्तस्य वचनमविसंवादि-सफलप्रवृत्तिजनकं भवति तस्मात् स आप्त इति भावः।।५।। आप्तभेदौ दर्शयन्तिस च द्वेधा लौकिको लोकोत्तरश्च ।।६।। तावेव वदन्तिलौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ।।७।। अत्राऽऽहुर्मीमांसका:-नहि पौरुषेयस्याऽऽगमस्य प्रामाण्यं भवितुमर्हति, भ्रमप्रमादादिदोषसुलभत्वात् पुरुषस्य, न च स्वर्गाद्यतीन्द्रिय-वस्तुदर्शित्वं कस्यापि सम्भवति येन तदंशे तद्वचनस्य प्रामाण्यं भवेत्, तस्मादपौरुषेयो वेद एवागमप्रमाणत्वेनाङ्गीकरणीयः, न च वेदेऽपौरुषेयत्वमसिद्धं, 'वेदोऽपौरुषेयः संप्रदायाऽव्यवच्छेदे सत्यस्मर्यमाणकर्तृकत्वात्' इत्यनुमानेन तत्र तस्य सिद्धत्वादिति।
__तदतितुच्छम्, द्वितीयपरिच्छेदे सर्वथा दोषासंस्पृष्टस्य सकलार्थदर्शिनः पुरुषधौरेयस्य सर्वज्ञस्य प्रसाधितत्वात्, तद्वचनप्रामाण्ये बाधकाभावात्।
यदुक्तं-"अपौरुषेयो वेद एव आगमप्रमाणत्वेनाङ्गीकरणीयः' इति तदपि न युक्तम्, वेदस्य वर्णात्मकत्वात्, वर्णानां पुरुषप्रयत्नजन्यत्वाद् भारतादिवत् पौरुषेयत्वमेव सिध्यति। न च पुरुषप्रयत्नमन्तरोत्पद्यमानो वर्णात्मकः शब्दः केनचित् कुत्राप्युपलब्धः।
यत् तु “संप्रदायाऽव्यवच्छेदे सत्यस्मर्यमाणकर्तृकत्वात्" इति हेतुरपौरुषेयसाधकत्वेनोपन्यस्त: सोऽपि विशेष्यासिद्धिदोषदुष्टत्वान्न स्वसाध्यसाधनायाऽलं, वैदिकैरेव नैयायिकादिभिर्वेदस्य ईश्वरकर्तृकत्वेन स्मरणात्। विशेषणं च संदिग्धासिद्ध, तथाहि-आदिमतामपि प्रसादादीनां संप्रदायो व्यवच्छिद्यमानो दृष्टः, अनादेस्तु वेदस्य नाद्यापि संप्रदायव्यवच्छेदो जात इति कथमिव विश्वसनीयं
भवेत्?
"प्रजापतिः सोमं राजानमन्वसृजत्, ततस्त्रयोवेदा अन्वसृजन्त'' "प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते' इत्याद्यागमेनापि वेदस्य पौरुषयत्वमेव प्रतीयते, इति न कथमपि वेदस्याऽपौरुषेयत्वं सिद्धिपथमायाति नतरां प्रामाण्यमिति ।।७।।