________________
76
APPENDIX E.
सौधर्मादिध्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महर्द्धिद्युतिवपुष्कः ॥२८॥ तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसङ्केषु ॥२६॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसंपन्नः । श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमयः ॥३०॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः । सेत्स्यति ततः परं वा खर्गान्तरितस्त्रिभवभावात् ॥३० १॥ __ यश्चेह जिनवरमते ग्टहाश्रमी निश्चितः सुविदितार्थः । दर्शनशीलवतभावनाभिरभिरञ्जितमनस्कः ॥३०॥ स्थलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्वतमूर्ध्व देशावकाशिकमनर्थविरतिं च ॥३०३॥ मामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्पं विधिवत्पात्रेषु विनियोज्यम् ॥३०४॥ चैत्यायतनप्रस्थापनानि च कृत्वा शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदौपाद्याः ॥३०५॥ प्रशमरतिनित्यषितो जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सविशुद्धाम् ॥३०६॥ प्राप्तः कल्पेम्चिन्द्रत्वं वा मामानिकत्वमन्यदा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥३० ७॥ मरलोकमेत्य सर्वगुणसंपदं दुर्लभां पुनर्लब्धा । 1 H. adds च. * A. परिमाणं. २०. विधिना.