________________
APPEN DIX C..
दिचु क्रमशचतुरष्टदशदादशषोडशसहस्रेषु द्वितीयषष्ठयोः स्थानयोस्वतःसप्तसु पद्धेषु तत्मामानिकमहत्तरिकातदभ्यन्तरमध्यबाह्यपर्षदनौकाधिपात्मरक्षादिस्थानानि पश्चिमोत्तरक्रमागण्यानि । तद्दाधिशच्चत्वारिंशदष्टचत्वारिंशल्लक्षसंख्याभिस्तिमृभिः पंक्तिभिर्वृतम् ॥ ___ तत्पौरस्त्यतोरणप्रवहा गङ्गा प्रागिरिणा* पञ्चशतगा गङ्गावर्तनकूटेनावर्तिता दक्षिणेन सशेषत्रयोविंशतिसहितानि पञ्चशतानि गता षटक्रोशविस्तृता प्रवहे ऽत्रिषष्टिर्मुखे मुखप्रमाणवेदिका सर्वत्र । तत्प्रपाते वज्रमयो जिकिकार्धयोजनायामा षडधिक विस्तुतार्धक्रोशपृथुला विवृतमकरमुखाकृतिः ॥
वज्रतलं तदधो गङ्गाप्रपातकुण्डं षष्टियोजनमायामविष्कम्भाभ्यां अधःपञ्चाशद्दशावगाढं त्रिसोपानतोरणा दिमत् । तन्मध्ये गङ्गाद्वीपो ऽष्टकायाम विष्कम्भः । तन्मध्ये भवनं तद्वत्यौठिकायां शय्या गङ्गायाः । तद्दक्षिणतोरणगा खण्डकप्रपातगुहाविजयाव्यविदारिका दक्षिणार्धबहुमध्यप्राक्प्रवृत्ता अर्धार्धसमुत्थचतुर्दशसहस्रमरिहता प्रवाहे अधो ऽर्धक्रोशा मपादयोजना मुखे जगतीदारणममुद्रानुप्रवेशा ॥ ___ तथापरेण सिन्धुः स्वकुण्डदीपतमिश्रागुहाविशिष्टा । षट्सप्रतिद्विशतषट्कलोत्तरगा तथा रोहितांशा गङ्गाद्विगुणसर्वमाना खनामदेवौकुण्डदीपा शब्दापात्यायोजनाप्राप्तापरगा हेमवतपाश्चात्याब्धिगामिनी। हिमवति सिद्धवायतनक्षुलहिमवदरतेलागङ्गाऔरोहितांशासिन्धुसुराहैमवतवैश्रमणकूटान्येकादश सर्वरत्नमयानि खनामदेवतास्थानानि पञ्चशतोछायाणि तावदधोविस्तृतान्युपरि
• गै. पूर्वाभिमुखौ।
+ Ms. omits तथा.