________________
Appendix B.
अथ पूजाप्रकरणम् ।
स्वानं पूर्वामुखीभूय प्रतीच्यां दन्तधावनम् । उदीच्यां श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखौ ॥ १ ॥ गृहे प्रविशतां * वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्धहस्तोर्ध्व भूमिके ॥ २ ॥ नौचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नोचैर्नोचैस्ततो वंशसन्तत्यापि सदा भवेत् ॥ ३ ॥ यथार्चकः स्यात्पर्वस्या उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्जं विदिक्वर्जनमेव च ॥ ४ ॥ पश्चिमाभिमुखः कुर्यात्पूजां जैनेन्द्रमूर्तये । चतुर्थ सन्त विच्छेदो दक्षिणस्यामसन्ततिः ॥ ५ ॥ आग्नेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां सन्ततिर्नैव नैर्ऋत्यां च कुलक्षयः ॥ ६ ॥ ऐशान्यां कुर्वतां पूजां संस्थितिर्नैव जायते । व्यंह्निजानुकरांसेषु मूर्ध्नि पूजा यथाक्रमम् ॥ ७ ॥ श्रीचन्दनं विना नैव पूजां कुर्यात्कदाचन । भाले कण्ठे हृदम्भोजोदरे तिलककारणम् ॥ ८॥ नवभिस्तिलकैः पूजा करणौया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥ ८ ॥ मध्याह्ने कुसुमैः पूजा संध्यायां धूपदीपयुक् । वामाङ्गे धूपदाहः स्यादग्रपूजा तु संमुखौ ॥ १० ॥ व्यर्हतो दक्षिणे भागे दोषस्य विनिवेशनम् | ध्यानं च दक्षिणे भागे चैत्यानां वन्दनं तथा ॥ ११ ॥
* P सुख्यानके स्थितं ।
+ A समं ।
+ वंशः ।
९ तदा स्यात्यन्ततिच्छेदो ।