________________
[ १० । सू०७ । ]
5
10
15
20
दशमोऽध्यायः ।
एवं तत्त्वपरिज्ञानाद्विरक्तस्यात्मनो भृशम् । निरास्त्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ ॥ १ ॥ पूर्वार्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः । संसारबीजं कार्त्स्न्येन मोहनीयं प्रहीयते ॥ २ ॥ ततो ऽन्तरायज्ज्ञानघ्नदर्शनघ्नान्यनन्तरम् । प्रहीयन्ते ऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्म चयं याति मोहनीये चयं गते ॥ ४ ॥ ततः चीणचतुःकर्मा प्राप्तो ऽथाख्यातसंयमम् । बौजबन्धननिर्मुक्तः स्नातकः परमेश्वरः ॥ ५॥ शेषकर्मफलापेचः शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च जिनो भवति केवलो ॥ ६॥ कृत्स्नकर्मचयादूर्ध्वं निर्वाणमधिगच्छति । यथा दग्धेन्धनो वहिर्निरुपादानसन्ततिः ॥ ७ ॥ दग्धे बौजे यथात्यन्तं प्रादुर्भवति नाडुरः । कर्मबौजे तथा दग्धे नारोहति * भवाङ्कुरः ॥८॥ तदनन्तरमेवोर्ध्वमालोकान्तात्स गच्छति । पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ॥८॥ कुलालचक्रे दोलायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेह तथा सिद्धिगतिः स्मृता ॥ १० ॥
D न रोहति ।
+ DC वापि ।
† D स्रुताः।
२२८