________________
१०६
तत्त्वार्थाधिगमसूत्रम् ।
[अ० ४ । सू०१६, २० । ]
द्विविधा वैमानिका देवाः कल्पोपपन्नाः कल्पातीताश्च ।
तान् परस्तादक्ष्याम इति ॥
उपर्युपरि ॥ १८ ॥
उपर्युपरि च यथा निर्देशं वेदितव्याः । नैकक्षेत्रे नापि तिगधो वेति ॥
सौधर्मैशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तक महाशुक्रसहस्त्रारेष्ठानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे
5
च ॥२०॥
एतेषु सौधर्मादिषु कल्पविमानेषु वैमानिका देवा भवन्ति । 10 तद्यथा । सौधर्मस्य कल्पस्योपर्येशानः कल्पः । ऐशानस्योपरि सनत्कुमारः । सनत्कुमारस्योपरि माहेन्द्र इत्येवमा सर्वार्थ सिद्धादिति ॥ सुधर्मा नाम* शक्रस्य देवेन्द्रस्य सभा । सा तस्मिन्नस्तीति सौधर्मः कल्पः । ईशानस्य देवराजस्य निवास ऐशान इत्येवमिन्द्राणां निवासयोग्या भिख्याः सर्वे कल्पाः ॥ ग्रैवेयास्तु 15 लोकपुरुषस्य ग्रौवाप्रदेशविनिविष्टा यौवाभरणभूता ग्रेवा? ग्रौव्या? ग्रैवेया ग्रैवेयका इति ॥ अनुत्तराः पञ्च देवनामान एव । विजिता अभ्युदयविघ्नहेतव एभिरिति विजयवैजयन्तजयन्ताः । तैरेव विघ्नहेतुभिर्न पराजिता अपराजिताः । सर्वेष्वभ्युदयार्थेषु ं सिद्धाः सर्वार्थैश्च सिद्धाः सर्वे चैषामभ्युदयार्था: 20
* D सुधर्मनामा । f Com. + D योगाभिख्याः । 8 C interchange.