________________
[अ० ४ । सू० ११ ।। चतुर्थोऽध्यायः
भवनवासिनो ऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिदौपदिक्कुमाराः ॥ ११ ॥ __ प्रथमो देवनिकायो भवनवासिनः । इमानि चैषां विधानानि भवन्ति । तद्यथा। असुरकुमारा नागकुमारा विद्युत्कुमाराः 5 सुपर्णकुमारा अग्निकुमारा वातकुमाराःस्तनितकुमारा उदधिकुमारा द्वीपकुमारा दिक्कुमारा इति। कुमारवदेते कान्तदर्शनाः सुकुमारा* मृदुमधुरललितगतयः श्टङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणवरणयानावाहनाः कुमारवञ्चोल्बणरागाः क्रौडनपराश्चेत्यतः कुमारा 10 इत्युच्यन्ते । असुरकुमारावासेष्वसुरकुमाराः प्रतिवमन्ति शेषास्तु
भवनेषु। महामन्दरस्य दक्षिणोत्तरयोर्दिविभागयोबहीषु योजनशतसहस्रकोटीकोटीवावामा भवनानि च दक्षिणार्धाधिपतौनामुत्तरार्धाधिपतीनां च यथाखं भवन्ति । तत्र
भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवन्ति । भवनेषु 15 वसन्तौति भवनवासिनः ॥
भवप्रत्ययाश्चैषामिमा नामकर्मनियमात्स्वजातिविशेषनियता विक्रिया भवन्ति । तद्यथा। गम्भौराः श्रीमन्तः काला महा काधा रत्नोत्कटमुकुटभास्वराथूडामणिचिहा असुरकुमारा
भवन्ति । शिरोमुखेष्वधिकप्रतिरूपाः कृष्णश्यामा मृदुललित20 गतयः शिरस्मु फणिचिहा नागकुमाराः। स्निग्धा
भ्राजिष्णवो ऽवदाता वज्रचिहा विद्युत्कुमाराः। अधिक
* D सुकुमारम....
+
यात।
- 13