SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १९३ दशमोऽध्यायः । तीर्थकरतीर्थेऽतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकररीतीर्थे सिद्धा अपि ॥ लिङ्गे पुनरन्यो विकल्प उच्यते । द्रव्यलिङ्गभावलिङ्गमलिङ्गमिति प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिंगः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्ग प्रति स्वलिङ्ग सिध्यति । द्रव्यलिंगं त्रिविधं स्वलिङ्गमन्यलिङ्ग गृहिलिङ्गमिति तत्प्रतिभाज्यम् । सर्वस्तु भावलिङ्ग प्राप्तः सिध्यति ॥ चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यात । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य याख्यातसंयतः सिध्यति । परम्परपश्चात्कृतिकस्य व्यजितेऽव्यञ्जिते च । अव्यञ्जिते त्रिचारित्रपश्चात्कृतश्चतुश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिकसूक्ष्मसांपरायिकयथाख्यातपश्चात्कृतसिद्धाःछेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्यमूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः॥ प्रत्येकबुद्धबोधितः। अस्य व्याख्याविकल्पश्चतुर्विधः । तद्यथा। १ तीर्थकरीतीर्थेऽप्येत एव विकल्पाः । यत आह ' एवं तित्थंकरी तित्थे' इति (सिद्धप्राभूतगाथा ३० ) विशेषस्तु तीर्थकरीतीर्थाभिलाप इति मलिस्वामिनी (एकोनविंशतितमस्तीर्थङ्करः) प्रभृतीनाम् । २ भौतपरिव्राजकादिवेषः । ३ गृहे लिंगं दीर्घकेशकच्छबन्धादि । ४ कदाचित्सलिंगः कदाचिदलिंग इति । ५ समस्तचारित्रमोहस्योपशमक्षयान्यतररूपत्वे सति शुद्धात्मस्वभावावस्थानापेक्षारूपत्वं यथाख्यातचारित्रस्य लक्षणम् । २५
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy