________________
नवमोऽध्यायः।
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायो व्युत्सर्गो ध्यानमित्येतत्पड्डिधमाभ्यन्तरं तपः ॥२०॥ नवचतुर्दशपंचद्विभेदं यथाक्रमं प्रारध्यानात् ॥ २१ ॥
तदाभ्यन्तरं तपः नवचतुर्दशपञ्चद्विभेदं भवति यथाक्रम पारध्यानात् ॥ २१॥ इत उत्तरं यद्वक्ष्यामः । तद्यथा ।
आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ॥ २२ ॥
प्रायश्चित्तं नवभेदम् । तद्यथा । आलोचनं प्रतिक्रमणं आलोचनप्रतिक्रमणे विवेकः व्युत्सर्गः तपः छेदः परिहारः उपस्थापनमिति ॥
आलोचनं प्रकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनान्तरम् । प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च । एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचनं विशोधनं प्रत्युपेक्षणमित्यनान्तरम् । स एष संसक्तानपानोपकरणादिषु भवति । व्युत्सर्गः प्रतिष्ठापनमित्यनान्तरम् । एषोऽप्यनेषणीयानपानोपकरणादिष्वशनीयविवेकेषु च भवति । तपो बाह्यमनशनादि प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि । छेदोऽपवर्तनमपहार इत्यनान्तरम् । स प्रव्रज्यादिवसपक्षमाससंवत्सराणामन्यत
२३