SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १६१ ___ अष्टमोऽध्यायः दानादीनाम् ॥ १४ ॥ अन्तरायः पञ्चविधः । तद्यथा । दानस्यान्तरायः लाभस्यान्तरायः भोगस्यान्तरायः उपभोगस्यान्तरायःवीर्यान्तराय इति॥१४॥ उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः।। आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५॥ आदितस्तिसृणां कर्मप्रकृतीनां ज्ञानवरणदर्शनावरणवेद्यानामन्तरायप्रकृतेश्च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥१५॥ सप्ततिर्मोहनीयस्य ॥ १६ ॥ मोहनीयकर्मप्रकृतेः सप्ततिः सागरोपमकोटीकोव्यः परा स्थितिः॥१६॥ नामगोत्रयोविंशतिः ॥ १७ ॥ नामगोत्रप्रकृत्योर्विंशतिः सागरोपमकोटीकोट्यः परा स्थितिः॥१७॥ त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ आयुष्कप्रकृतेस्त्रयस्त्रिंशत्सागरोपमानि परा स्थितिः ॥ १८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १९ ॥ वेदनीयप्रकृतेरपरा द्वादश मुहूर्ताः स्थितिरिति ॥ १९ ॥ नामगोत्रयोरष्टौ ॥ २० ॥ नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥ शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ वेदनीयनामगोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरणदर्शनावरणमोहनीयायुष्कान्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्त भवति ॥२१॥ उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः । २१
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy