________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
निःशीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥
निःशीलव्रतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामावो भवति । यथोक्तानि च ॥ १९ ॥ अथ दैवस्यायुषः क आस्रव इति । अत्रोच्यते-सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य । २० ।
१३४
संयमो विरतिर्व्रतमित्यनर्थान्तरम् । 'हिंसानृतेस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम्' इति वक्ष्यते ॥ संयमासंयमो देशविरतिरणुव्रतमित्यनर्थान्तरम्। 'देशसर्वतोऽणुमहती' इत्यपि वक्ष्यते ।। अकामनिर्जरा पराधीनतयानुरोधाच्चाकुशलनिवृत्तिराहारादिनिरोधश्च ।। बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः । तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि ॥ तदेवं सरागसंयमः संयमा संयमादीनि च दैवस्यायुष आस्रवा भवन्तीति ॥ २० ॥ अथ नाम्नः क आस्रव इति । अत्रोच्यतेयोगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आस्रवो भवतीति ॥ २१ ॥
विपरीतं शुभस्य ॥ २२ ॥
एतदुभयं विपरीतं शुभस्य नाम्न आस्रवो भवतीति ||२२|| किं चान्यत्
१ अ. ६ सू. १६, १७, १८.
२ अ. ७ सू. १.
३ अ. ७ सू. २.
४ अ. ८ सू. १२.
५ अ. ८ सू. १२.