________________
चतुर्थोऽध्यायः । परस्ताद्वक्ष्यते । इह तु वचने प्रयोजनं येषामपि समा भवति तेषामप्युपर्युपरि गुणाधिका भवतीति यथा प्रतीयेत । प्रभावतोऽधिकाः। यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिषु सौधर्मकाणां सोऽनन्तगुणाधिक उपर्युपरि । मन्दाभिमानतया त्वल्पतरसंक्लिष्टत्वादेते न प्रवर्तन्त इति ॥ क्षेत्रस्वभावजनिताच्च शुभपुद्गलपरिणामात्सुखतो द्युतितश्चानन्तगुणप्रकर्षणाधिकाः ॥ लेश्याविशुद्धयाधिकाः । लेश्यानियमः परस्तादेषां वक्ष्यते । इह तु वचने प्रयोजनं यथा गम्येत यत्रापि विधानतस्तुल्यास्तत्रापि विशुद्धितोऽधिका भवन्तीति । कर्मविशुद्धित एव वाधिका भवन्तीति ॥ इन्द्रियविषयतोऽधिकाः। यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत्प्रकृष्टतरगुणत्वादल्पतरसंक्लेशत्वाच्चाधिकमुपयुपरीति । अवधिविषयतोऽधिकाः सौधमैंशानयोर्देवा अवधिविषयेणाधो रत्नप्रभां पश्यन्ति तिर्यगसङ्खयेयानि योजनसहस्राण्यू मास्वभवनात् । सानत्कुमारमाहेन्द्रयोः शर्कराप्रभां पश्यन्ति तिर्यगसङ्खयेयानि योजनशतसहस्राण्यूर्ध्वमास्वभवनात् । इत्येवं शेषाः क्रमशः । अनुत्तरविमानवासिनस्तु कृत्स्नां लोकनालिं पश्यन्ति । येषामपि क्षेत्रतस्तुल्योऽवधिविषयः तेषामप्युपर्युपरि विशुद्धितोऽधिको भवतीति ॥ २१ ॥
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २२ ॥
गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन चोपयुपरि हीनाः । तद्यथा-द्विसागरोपमजघन्यास्थितीनां देवानामासप्तम्यां गतिविषयस्तिर्यगसङ्खयेयानि योजनकोटीकोटीसहस्राणि ।
१ अ. ४ सू. २९ इत्यतःपरं सू. ४२ इति यावत् । २ अ. ४ सू. २३. ३ चतुर्दशरज्ज्वात्मकलोकमध्यवर्तिनीम् ।