________________
९२
सभाष्यतत्त्वार्थाधिगमसूत्रेषु । स्तात्सूर्यास्ततश्चन्द्रमसस्ततो ग्रहास्ततो नक्षत्राणि ततोऽपि प्रकीर्णताराः। ताराग्रहास्त्वनियतचारित्वात्सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति । सूर्येभ्यो दशयोजनावलम्बिनो भवन्तीति । समाद्भूमिभागादष्टसु योजनशतेषु सूर्यास्ततो योजनानामशीत्यां चन्द्रमसस्ततो विंशत्यां तारा इति । द्योतयन्त इति ज्योतींषि विमानानि तेषु भवा ज्योतिष्का ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः । मुकुटेषु शिरोमुकुटोपगृहितैः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिहैविराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति ॥ १३ ॥
मेरुप्रदक्षिणानित्यगतयो नलोके ॥ १४ ॥
मानुषोत्तरपर्यन्तो मनुष्यलोक इत्युक्तम् । तस्मिन् ज्योतिष्का मेरुपदाक्षिणानित्यगतयो भ्रमन्ति । मेरोः प्रदक्षिणा नित्या गतिरेषामिति मेरुपदाक्षणानित्यगतयः। एकादशस्वेकविंशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति । तत्र द्वौ सूर्यो जम्बूद्वीपे, लवणजले चत्वारो,धातकीखण्डे द्वादश, कालोदे द्वाचत्वारिंशत्, पुष्करा] द्विसप्ततिरित्येवं मनुष्यलोके द्वात्रिंशत्सूर्यशतं भवति । चन्द्रमसामप्येष एव विधिः । अष्टाविंशतिनक्षत्राणि, अष्टाशीतिर्ग्रहाः, षट्षष्टिः सहस्राणि
१ अत्यन्तप्रकाशकारित्वात् ज्योतिःशब्दाभिधेयानि विमानानि ।
२ जम्बूद्वीप ( ३-९) धातकीखण्डपुष्करवरद्वीपार्धरूपा द्वीपाः द्वौ च लवणो. दधिकालोदधिरूपी समुद्रौ मानुषं क्षेत्रं मनुष्याणामुत्पत्तमरणस्य च भावात् । अस्मिंश्च मानुषे क्षेत्रे समा विभागाः कालविभागाः सुषमसुषमादयो[४-१५] भवन्ति । ततो मनुष्यक्षेत्रात्परतः सर्वमपि देवारण्यं देवानां क्रीडास्थानं तत्र जन्मतो मनुष्याः नापि तत्र कोऽपि कालविभाग इत्यर्थः ।
३ अ. ३ सू. १४.
४ तत्र द्वात्रिशं शतं एवं सूर्याणामपि द्वात्रिशं शतं परिभावनीयम् । ( जी. ३ प्रति.)
५ एकैकस्य शशिनः तारापरिवारः कोटीकोटीनां षट्षष्टिः सहस्राणि नव शतानि पंचसप्तत्यधिकानि । सूर्य. १९ प्रा. ॥