________________
८
समाष्यतत्वार्थाधिगमसूत्रेषु
परेऽप्रवीचाराः ॥१०॥ कल्पोपपत्रेभ्यः परे देवा अप्रवीचारा भवन्ति । अल्पसंक्लेशत्वात् स्वस्थाः शीतीभूताः । पञ्चविधप्रवीचारोद्भवादपि प्रीतिविशेषादपरिमितगुणमीतिप्रकर्षाः परमसुखतृप्ता एव भवन्ति ॥ १० ॥ ___अत्राह । उक्तं भवता देवाश्चतुर्निकाया दशाष्टपञ्चद्वादशविकल्पा इत्युक्ते निकायाः के के चैषां विकल्पा इति । अत्रोच्यते । चत्वारो देवनिकायाः । तद्यथा। भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति ॥
तत्रभवनवासिनोऽसुरनागविद्युत्सुपर्णामिवातस्तनितोदधि
द्वीपदिक्कुमाराः ॥ ११ ॥ प्रथमो देवनिकायो भवनवासिनः । इमानि चैषां विधानानि भवन्ति । तद्यथा-१ असुरकुमारा २ नागकुमारा ३ विद्युत्कुमाराः ४ सुपर्णकुमारा ५ अग्निकुमारा ६ वातकुमाराः ७ स्तनितकुमारा ८ उदधिकुमारा ९ द्वीपकुमारा १० दिक्कुमारा इति। कुमारवदेते कान्तदर्शनाः सुकुमारा मृदुमधुरललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारवचोद्धतरूपवेषभाषाभरणपहरणावरणयानवाहनाः कुमारवच्चोल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते । असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति शेषास्तु भवनेषु । महामन्दरस्य दाक्षिणोत्तरयोर्दिग्विभागयोर्बवीषु योजनशतसहस्रकोटीकोटीष्वावासा भवनानि च दक्षिणार्धाधिपतीनामुत्तरार्धाधिपतीनां च यथास्वं
१ परे-कल्पातीताः । अ. ४ सू. २४. २ उद्रिक्तस्नेहाः।
३ शेषास्तु नागादयो भवनेष्वेव प्रायो वसन्ति नावासेषु । तानि च भवनानि बाहिवृत्तान्यन्तश्चतुरस्राणि अधःपुष्करकर्णिकासंस्थानानि ।