SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्वार्थाधिगमसूत्रेषु । ७२ पञ्चास्तिकायसमुदायो लोकः । ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता वक्ष्यन्ते च । स लोकः क्षेत्रविभागेन त्रिविघोऽधास्तर्यगूज़ चेति । धर्माधर्मास्तिकायौ लोकव्यवस्थाहेतू । तयोरवगाहविशेषाल्लोकानुभावनियमात् सुप्रतिष्टकवज्राकृतिर्लोकः । अधोलोको गोकन्धराधरार्धाकृतिः। उक्तं ह्येतत् । भूमयः सप्ताधोऽधः पृथुतराच्छत्रातिच्छत्रसंस्थिता इति ता यथोक्ताः । तिर्यग्लोको झल्ल कृतिः । उर्ध्वलोको मृदङ्गाकृतिरिति । तत्र तिर्यग्लोकप्रसिद्धयर्थमिदमाकृतिमात्रमुच्यते ॥ ६॥ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥७॥ जम्बूद्वीपादयो द्वीपा लवणादयश्च समुद्राः शुभनामान इति । यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः । शुभान्येव वा नामान्येषामिति ते शुभनामानः। द्वीपादनन्तरः समुद्रः समुद्रादनन्तरो द्वीपो यथासङ्ख्यम् । तद्यथा। जम्बूद्वीपो द्वीपो लवणोदः समुद्रः धातकीखण्डो द्वीपः कालोदः समुद्रः पुष्करवरो द्वीपः पुष्करोदः समुद्रः वरुणवरो द्वीपो वरुणोदः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रो घृतवरो द्वीपो घृतोदः समुद्र इक्षुवरो द्वीप इक्षुवरोदः समुद्रः नन्दीश्वरो द्वीपो नन्दीश्वरवरोदः समुद्रः अरुणवरो द्वीपोऽरुणवरोदः समुद्र इत्येवमसङ्खोया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्या इति ॥७॥ द्विढिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८॥ सर्वे चैते द्वीपसमुद्रा यथाक्रममादितो द्विििर्वष्कम्भाः पूर्वपूर्व १ पञ्चमाध्याये। २ स्वयं भवन्तीति स्क्यंभुवो देवास्ते यत्रागत्य रमन्त इति स्वयंभूरमणः, अर्धरज्जुप्रमाणः प्रान्तसमुद्रः । ३ विष्कम्भः-मध्यविस्तारः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy