SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ ४-२२ कर्मविशुद्धित एव वाधिका भवन्तीति ।। इन्द्रियविषयतोऽधिकाः । यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत्प्रकृष्टतरगुणत्वादल्पतरसंक्लेशत्वाच्चाधिकमुपर्युपरीति । अवधिविषयतोऽधिकाः सौधर्मेशानयोर्देवा अवधिविषयेणाधो रत्नप्रभां पश्यन्ति तिर्यगसंख्येयानि योजनसहस्राण्यर्ध्वमास्वभवनात् । सानत्कुमार- माहेन्द्रयोः शर्कराप्रभां पश्यन्ति तिर्यगसंख्येयानि योजनशतसहस्राण्य_मास्वभवनात् । इत्येवं शेषाः क्रमशः । अनुत्तरविमानवासिनस्तु कृत्स्ना लोकनालिं' पश्यन्ति । येषामपि क्षेत्रतस्तुल्योऽवधिविषयः तेषामप्युपर्युपरि विशुद्धितोऽधिको भवतीति ।। २१ ॥ ___ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २२ ॥ गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन चोपर्युपरि हीनाः । तद्यथा-द्विसागरोपमजघन्यस्थितीनां देवानामासप्तम्यां गतिविषयस्तिर्यगसंख्येयानि योजनकोटीकोटीसहस्राणि । ततः परतो जघन्यस्थितीनामेकैकहीना भूमयो यावत्तृतीयेति । गतपूर्वाश्च गमिष्यन्ति च तृतीयायां देवाः, परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति । महानुभावक्रियातः औदासीन्याच्चोपर्युपरि देवा न गतिरतयो भवन्ति ॥ सौधर्मेशानयोः कल्पयोर्देवानां शरीरोच्छ्रायः सप्तारत्नयः । उपर्युपरि द्वयोर्द्वयोरेकारनिहींना आसहस्रारात् । आनतादिषु तिस्रः । ग्रैवेयकेषु द्वे । अनुत्तरे एका इति ॥ सौधर्मे विमानानां द्वात्रिंशच्छतसहस्राणि । ऐशानेऽष्टाविंशतिः । सानत्कुमारे द्वादश । माहेन्द्रेऽष्टौ । ब्रह्मलोके चत्वारि शतसहस्राणि । लान्तके पञ्चाशत्सहस्राणि । महाशुक्रे चत्वारिंशत् । सहस्रारे षट् । आनतप्राणतारणाच्युतेषु सप्तशतानि । अधोग्रैवेयकाणां शतमेकादशोत्तरम् । मध्ये सप्तोत्तरम् । उपर्येकमेव शतम् । अनुत्तराः पञ्चैवेति । एवमूर्ध्वलोके वैमानिकानां सर्वविमानपरिसंख्या चतुरशीतिः शतसहस्राणि सप्तनवतिश्च सहस्राणि त्रयोविंशानीति । स्थानपरिवारशक्तिविषयसंपस्थितिष्वल्पाभिमानाः परमसुखभागिन उपर्युपरीति ।। १. चतुर्दशरज्ज्वात्मकलोकमध्यवर्तिनीम् । २. जिनाभिवन्दनादीन्मुक्त्वा । ३. अरलिः निष्कनिष्टमुष्टिहस्तः (जं. २ वक्ष.) 'सप्त रत्नय' इत्यपि पाठः । ४. स्थानं-कल्पादि । परिवारो देवा देव्यश्च । शक्तिः सामर्थ्यमचिन्त्यम् । विषयोऽवधेरिन्द्रियाणां वा । संपद्विभूतिः । स्थितिरायुष इयत्ता । अथवा विषयसंपत्शब्दादिसमृद्धिः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy