________________
10
द्वितीयस्याऽऽगमनमशक्यमित्यलं तच्चिन्तया । प्रथमस्य तु धर्मप्रीतिरर्थकामादिसाधकत्वेन । हेयत्वञ्चास्य कलिकालसर्वज्ञैः 'धर्मस्तु ऐहिकाऽऽमुष्मिकसुखसाधनत्वेनार्थकामाभ्यां यद्यप्युत्कृष्यते, तथापि कनकनिगडरूपपुण्यकर्मनिबन्धनत्वाद् भवभ्रमणहेतुरिति नाग्रणीः' । (यो.शा. ९.९४) इति दर्शितम् । ___ अथ 'जिनोक्तमिति सद्भक्त्या ग्रहणे द्रव्यतोऽप्यदः । बाध्यमानं भवेद् भावप्रत्याख्यानस्य कारणम्,' इत्यष्टकवचनात् तदनुष्ठानं भौतिकाऽऽशयवतामुत्तममेवेति चेद्, न । अष्टकवचस्तु भौतिकाऽऽशयविलये सत्येवोत्तमत्वं भवतीति दर्शयति । अत एवाह वृत्तिकृद् - 'जिनोक्तमिति सद्भक्तिर्हि द्रव्यप्रत्याख्यानहेतूनामपेक्षादिभावानां विरूद्धा, अतो यत्र सा स्यात्तेषां निवृत्तेर्भावप्रत्याख्यानीभवति' इति । इदं पुनर्बोध्यम् - अपेक्षादिभावानां निवृत्तिरपि न सर्वेषां भवति, अत एव सर्वेषां भौतिकाऽऽशयवतामनुष्ठानमुत्तमं भवतीत्यपि नास्ति । यदुक्तं तत्रैव 'न सर्वमेवेति भावना । येषामेवापेक्षादिभावविलयस्तेषामेव धर्मानुष्ठानसाफल्यमिति भावः । अपेक्षादिभावविलयाऽभावे तु धर्मानुष्ठानस्य द्रव्यत्वमेव । न हि द्रव्यानुष्ठानोपदेशस्याधिकारो भवति ।
अनवाप्तधर्मभावानान्तु भवभयजननोपदेशदानमस्तु । वर्णयन्तु नाम भवस्यानन्तदुःखाविनाभाविस्वभावसमुत्पादितासमाधेः दुःस्थेयत्वम्, आत्मनश्चा ऽनिर्वचनीयानन्दमयस्वभावाविर्भावानुभवगोचराद्भुतविभूतेः सांप्रतं मलीनत्वम्, तदपगमाय च धर्मस्य सकलाकुशलविलयनकौशलनिलयस्य माहात्म्यम्, किमर्थमर्थकामादिसाधनत्वेन धर्मस्योपदेशदानविषय आग्रहः ।।
अर्थकामादीनामव्यभिचारी धर्म इत्यादिश्रवणेनावाप्तार्थकामादिसुखाः निजस्य कृतज्ञत्वविषये जागृता भवन्ति । पूर्वाऽऽराधितधर्मेण मया लब्धेयं सामग्री - इति उपकृतोऽस्मि धर्मेणाऽहम्, भवतु तदासेवनेन मम कृतज्ञताऽऽभिव्यक्तिरिति धर्मानुरागोऽनुत्पन्नोऽपि समुत्पद्यते । धर्माऽऽराधनपरास्तु - मदीयमोक्षो धर्मेणैव भविष्यतीत्येतत् सत्यम्, अथ च मदीयसंसारोऽपि धर्मप्रभावेणैव समाधिसाधनाऽनुकूल इति धर्मस्यानन्तो मदुपरि परमोपकार इति भावयन्तः सुदृढाः भवन्ति । धर्मानुरागः तदृढत्वञ्चैतादृक्पाठानां फलम् । न पुनः अर्थकामादीनामपेक्षापोषणमेतेन कल्पनीयम् । एतद्विषये भगवता पूज्यतमेन