________________
तत्त्वार्थाधिगमसूत्रम्
६१
वंशाः क्षेत्राणि भवन्ति । भरतस्योत्तरतो हैमवतं हैमवतस्योत्तरतो हरयः इत्येवं शेषाः । वंशा' वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति । सर्वेषां चैषां `व्यवहारनयापेक्षादादित्यकृताद्दिग्नियमादुत्तरतो मेरुर्भवति । लोकमध्यावस्थितं चाष्टप्रदेशं रुचकं दिग्नियमहेतुं प्रतीत्य यथासम्भवं भवतीति ॥ १० ॥
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवत्रिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥
तेषां वर्षाणां विभक्तारो हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरी इत्येते षड् वर्षधराः पर्वताः । भरतस्य हैमवतस्य च विभक्ता हिमवान् । हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवानित्येवं शेषाः ॥
तत्र पञ्च योजनशतानि षड्विंशानि षट् चैकोनविंशतिभागा भरतविष्कम्भः । स द्विर्द्धिर्हिमवद्धैमवतादीनामाविदेहेभ्यः । परतो विदेहेभ्योऽर्धार्धहीनाः ॥ पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्रायो हिमवान् ॥ तद्विर्महाहिमवान् । तदद्विर्निषध इति ।।
भरतवर्षस्य योजनानां चतुर्दशसहस्राणि चत्वारि शतान्येकसप्ततीनि षट् च भागा विशेषतो “ज्या । इषुर्यथोक्तो विष्कम्भः । धनुः काष्ठं चतुर्दशसहस्राणि शतानि १. वंशाः किल पर्ववन्तो भवन्ति तद्वत्पर्वविभागजननात् वंशा एवामी भरतादयः । वर्षसंनिधानाच्च वर्षाः । मनुजादिनिवासाच्च वास्याः ।
२. व्यवहारो हि संगृहीतानां पदार्थानां विधिपूर्वकमवहरणं लोकप्रसिद्धव्यवहारतत्परत्वात्, न खलु निश्चयमवलम्बते सर्वव्यवहारोच्छेदप्रसंगात् ।
३. नैश्चयिकी दिक् कथं प्रतिपत्तव्येत्यत आह- लोकमध्यावस्थितमिति ।
४. रुचकः- तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां प्रत्येकं रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लकौ द्वौ नभः प्रदेशप्रतरौ विद्येते । तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते । तत्र च मध्य उपरितनप्रतरस्य ये चत्वारो नभः प्रदेशास्तथा - अधस्तनप्रतरस्य तु ये चत्वारो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समये रुचक इति परिभाषा । अयं चाष्टप्रदेशिको रुचकः समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः षण्णामपि दिशां चतसृणामपि च विदिशां प्रभवः (उप्तत्तिस्थानम्) मन्तव्यः - तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्वन्तर्द्वी सर्वक्षुल्लकप्रतरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतस्रो दिशामनुदिशां च प्रभव उत्पत्तिस्थानमिति । ( आचा. १ श्रु.)
५. ‘अत्र सुगमत्वार्थं योजनानां कला एव कल्याः स्युस्ताश्च जम्बूद्वीपपरिमाणे