________________
३३
तत्त्वार्थाधिगमसूत्रम् कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या । इत्येते एकविंशतिरौदयिकभावा भवन्ति ।।६।।
जीवभव्याभव्यत्वादीनि च ॥ ७ ॥ जीवत्वं भव्यत्वमभव्यत्वमित्येते त्रयः पारिणामिका भावा भवन्तीति । आदिग्रहणं किमर्थमिति । अत्रोच्यते । अस्तित्व मन्यत्वं कर्तृत्वं भोक्तृ त्वं गुणवत्त्व मसर्वगत त्वमनादिकर्मसन्ता नबद्धत्वं प्रदेशत्वमरूपत्वं नित्यत्वमित्येवमादयोऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति, धर्मादिभिस्तु
तुल्यपरिणामरूपत्वं कापोतलेश्यालक्षणम् । (४) रक्तवर्णद्रव्यसाचिव्यात्फलादनेच्छया गुच्छसंदोहच्छेदनपरिणामतुल्यपरिणामरूपत्वं तेजोलेश्यालक्षणम् । (५) पीतवर्णद्रव्यसाचिव्यात्फलादनेच्छया फलोच्छेदनपरिणामतुल्यपरिणामरूपत्वं पद्मलेश्यालक्षणम् । (६) शुक्लवर्णद्रव्यसाचिव्यात्पतितफलादनेच्छया पतितफलग्रहणपरिणामतुल्यपरिणामरूपत्वं शुक्ललेश्यालक्षणम् । द्विनवाष्टादिसूत्रेण जीववर्तिन एव त्रिपञ्चाशद्भेदाः संगृहीता इति संख्यानियमो न भिद्यते न चानर्थक्यं सूत्रस्य, जीववर्तिनोऽजीववार्तिनश्च साधारणाः पारिणामिकास्ते तत्र
नोपात्तास्तदुपादानायेदमादिग्रहणम् । २ अस्तित्वं भावानां मौलो धर्मः सत्तारूपत्वम् । ३ शरीरादात्मनस्तद्विलक्षणत्वात्परलोकसद्भावाचावश्यमन्यत्वमभ्युपेयम् । ४ शुभाशुभकर्मणो निर्वर्तकत्वं योगप्रयोगसामर्थ्यात् । ५ कर्तृत्वादेव च भोक्तृत्वम् । ६ क्रोधादिमत्त्वात् गुणवत्त्वं ज्ञानाद्यात्मकत्वाद्वा । परमाण्वादावपि गुणवत्त्वं
एकवर्णादित्वात्समानम् । ७ त्वक्पर्यन्तशरीरमात्रव्यापित्वात् असर्वगतत्वं संसार्यात्मनो मुक्तस्यापि समन्ततः
परिमितत्वात् । स्वदेहप्रमाणत्रिभागहीनावगाहात्मकत्वादसर्वव्यापिता परमाण्वादिभिस्तुल्या। ८ अविद्यमानादिकर्मसंतत्या वेष्टितः संसारी संसृतौ पर्यटतीति न मुक्त इति । ९ प्रदेशत्वं तु लोकाकाशप्रदेशपरिमाणप्रदेश एक आत्मा भवति । . १० रूपसगन्धस्पर्शविरहितत्वादात्मनोऽरूपत्वं तच्चाकाशादिभिस्तुल्यम् । ११ 'तद्भावाव्ययं नित्यम्' ५।३० इति वक्ष्यते । नित्यश्च ततो ज्ञानादिसद्भावादयमात्मा
तुल्यं चैतदाकाशादिभिरेवमेते दश धर्माः साधारणा भाष्यकृतोपदर्शिता आदिशब्दाक्षिप्ताः । १२ पुनरप्यादिग्रहणं कुर्वन् ज्ञापयत्यत्रानन्तधर्मकमेकं तत्राशक्याः प्रस्तारयितुं सर्वे धर्माः,
प्रवचनज्ञेन पुंसा यथासंभवमायोजनीयाः । क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवंप्रकाराः सन्ति भूयांसः ।