________________
१६८
मूलसूत्राणि
विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २९ ॥
एकसमयोऽविग्रहः ॥ ३०॥ एकं द्वौ वानाहारकः ॥ ३१ ॥
सम्मूर्छनगर्भोपपाता जन्म ॥ ३२ ॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३३ ॥
जराय्यण्डपोतजानां गर्भः ॥ ३४ ॥ नारकदेवानामुपपातः ॥ ३५ ॥
शेषाणां सम्मूर्छनम् ॥ ३६ ॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥
तेषां परं परं सूक्ष्मम् ॥ ३८ ॥ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥
अनन्तगुणे परे ॥ ४० ॥
अप्रतिघाते ॥ ४१ ॥ अनादिसम्बन्धे च ॥ ४२ ॥
सर्वस्य ॥ ४३ ॥ तदादीनि भाज्यानि युगपेदकस्याचतुर्थ्यः ॥ ४४ ।।
निरुपभोगमन्त्यम् ॥ ४५ ॥ गर्भसम्मूर्छनजमाद्यम् ॥ ४६ ॥ वैक्रियमौपपातिकम् ॥ ४७ ॥
लब्धिप्रत्ययं च ॥ ४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥
न देवाः ॥ ५१ ॥ औपपातिकचरमदेहोत्तमपुरुषासंख्येयवर्षायुषोऽनपवायुषः ॥ ५२ ॥