SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६६ द्विविधोऽवधिः ॥ २१ ॥ भवप्रत्ययो नारकदेवानाम् ॥ २२ ॥ यथोक्तनिमित्तः षडुड्विकल्पः शेषाणाम् ॥ २३ ॥ ऋजुविपुलमती मनः पर्यायः ॥ २४ ॥ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्याययोः ॥ २६ ॥ मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥ २७ ॥ रूपिष्ववधेः ॥ २८ ॥ तदनन्तभागे मनःपर्यायस्य ॥ २९ ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ ३० ॥ एकादीनि भाज्यानि युगपदेकस्मिन्त्राचतुर्भ्यः ॥ ३१ ॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३२ ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ।। ३३ ।। नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥ ३४ ॥ आद्यशब्दौ द्वित्रिभेदौ ॥ ३५ ॥ द्वितीयोऽध्यायः । औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥ १ ॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् || २ || सम्यक्त्वचारित्रे ॥ ३ ॥ ज्ञानदर्शनदानलाभ भोगोपभोगवीर्याणि च ॥ ४ ॥ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥ ५ ॥ मूलसूत्राणि
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy