________________
तत्त्वार्थाधिगमसूत्रम्
१३७
आधुत्तरकारणाशुचित्वाद्, अशुचिभाजनत्वादशुच्युद्भवत्वाद्, अशुभपरिणामपाकानुबन्धाद्, अशक्यप्रतीकारत्वाच्चेति । तत्राद्युत्तरकारणाशुचित्वात्तावच्छरीरस्याचं कारणं शुक्रं शोणितं च तदुभयमत्यन्ताशुचीति । उत्तरमाहारपरिणामादि । तद्यथा । कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽत्यन्ताशुचिर्भवति । ततः पित्ताशयं प्राप्य पच्यमानोऽम्लीकृतोऽशुचिरेव भवति । पक्को वाय्वाशयं प्राप्य वायुना विभज्यते-पृथक् 'खलः पृथग् रसः । खलान्मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति रसाच्छोणितं परिणमति, शोणितान्मांसम्, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मज्जा, मज्जाभ्यः शुक्रमिति । सर्वं चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति । तस्मादाद्युत्तरकारणाशुचित्वादशुचि शरीरमिति ॥ किं चान्यत् अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्णनासाक्षिदन्तमलस्वेदश्लेष्मपित्तमूत्रपुरीषादीनामवस्करभूतं तस्मादशुचीति ॥ किं चान्यत् । अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे संभवतीति अशुचि शरीरम् ॥ किं चान्यत् । अशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानाप्रभृति खल्वपि शरीरं कललार्बुदपेशीघनव्यूहसंपूर्णगर्भकौमारयौवनस्थविरभावजनकेनाशुभपरिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि ।। किं चान्यत् । अशक्यप्रतीकारत्वात् अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वमुद्वर्तनरूक्षणस्नानानुलेपनधूपप्रघर्षवासयुक्तिमाल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् । अशुच्यात्मकत्वाच्छुच्युपघातकत्वाच्चेति । तस्मादशुचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवति । निर्विण्णश्च शरीरप्रहाणाय घटत इति अशुचित्वानुप्रेक्षा ॥ ___आस्रवानिहामुत्रापाययुक्तान्महानदीस्रोतोवेगतीक्ष्णानकुशलागमकुशलनिर्गमद्वारभूतानिन्द्रियादीनवद्यतश्चिन्तयेत् । तद्यथा । स्पर्शनेन्द्रियप्रसक्तचित्तः सिद्धोऽनेकेविद्याबलसंपन्नोऽप्याकाशगोऽष्टाङ्गमहानिमित्तपारगो गार्ग्यः सत्यकिर्निधनमाजगाम । तथा प्रभूतयवसोदकप्रमाथावगाहादिगुणसंपन्न- वनविचारिणश्च मदोत्कटा बलवन्तोऽपि हस्तिनो हस्तिबन्धकीषु स्पर्शनेन्द्रियसक्तचित्ता ग्रहणमुपगच्छन्ति । ततो बन्धवधदमनवाहनाङ्कुशपाणिप्रतोदाभिघातादिजनितानि १. स्थूलभागः । २. अवद्यतः खण्डयतः-जीवस्यापकारिणः । ३ सत्यकिः - स्त्रीष्वासक्तचित्तः ।