________________
३५० न्यायालोके द्वितीयः प्रकाशः
* चिन्तामणिकारमतनिरास:
स्यादेतत् 'भूतले घटो नास्तीत्यत्र कतमोऽभावः प्रतीयते ? न तावदत्यन्ताभावः, तस्य सार्वदिकतादात्म्यपरिणामानधिकरणाधिकरणरूपत्वात् । तदुक्तं कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः' इति । तथा च घटदशायामपि भूतले घटतादात्म्यविरहेण 'घटो नास्ती' ति प्रतीत्यापत्तेः । न च संयोगदशायां संयुक्तत्वेन भूतलेऽपि • भानुमती.
:अभावाधारतयाऽनुभूयते 'इदानीं भूतले घटले नास्ती 'ति प्रतीते: । न च तत्समयविशेषे तत्समयविशेषयोगः, अभेदेसम्बन्धानुपपतौ आधाराधेयभावाभावत् - (त. चिं.प्र.ख. पु. ५१६ ) इति गणेशवचनं प्रत्याख्यातं, 'घटाभावे घटो नास्ती'त्यादौ स्वस्यापि घद्यभावत्वेनाधाराधेयभावविवक्षयैत निस्तार इति स्यादवादरहस्ये (म. स्या. रह. प्र. स्वं. पु. ८२ ) । अत एव समयविशेषयोगात् 'इदानीं भूतलं' इति प्रतीति-प्रयोगौ स्यातां, विशेषणस्य स्वप्रकारकविशेष्टप्रत्ययजनकत्वात् न तु 'भूतले घटाभाव:' इति <- (त. चि. प्र. खं. पु. ७१६ ) चिन्तामणिकुदुवतं निरस्तम्, तन्तुपदयोरुयोन्याधारत्वप्रतीतिवदेवदुपपतेः । न च कथं परस्य तत्वाधारत्वमिति शङ्कनीयम्, 'अस्मिन् पढे बहत: तन्तवः' इति लौकिकप्रसिद्धप्रतीत्या अधिकदेशवृतित्वा पटस्य तत्वाधारत्वोपपतेरित्यधिकं मत्कृतजयलतायाम् (म.स्या. रह. प्र. खं. ज.ल.पु. ८३/८४ ) | यदपि -> समये किमभावाश्रयतैव विशेष:, ततत्समयस्वरूप वा ? आोऽभावस्वीकारः, द्वितीयेऽननुगम:' - (त. चिं.प्र. खं. पु. ७१६ ) इति गणेशेनोक्तं, तदपि न चारु, विशेषस्य पर्यायरूपत्वे दोषाभावादिति दिक् ।
--> 'एतकाले एतत्काल' इति प्रतीत्यभावेनैकेनैव रूपेणाधारत्वमाधेयत्वमे कस्य विरुद्धं न त्वेतत्कालत्वेन रूपेणाधारत्वं घटाभावत्वेन रूपेण चाधेयत्वमेकस्यैत कालस्येति <-- केचित् ।
अन्ये तु > 'इदानीं भूतले घटो नास्तीत्या कालस्याधारतावच्छेदकत्वमेव न त्वाधारत्वं, स्वस्यापि स्वाधारतावच्छेदकत्वेऽतिरोधादिति <- वदन्ति ।
प्रकरणकारः प्रसङ्गाद किञ्चित् मीमांसते -> स्यादेतदिति । मैचमित्यनेनास्यान्वय इत्यवधेयम् । 'भूतले घटो नास्तीत्यत्र अत्यन्ताभाव- प्रध्वंसाभाव-प्रागभावान्योन्याभावानां कतमोऽभावः प्रतीयते ? न तावत् घटस्य अत्यन्ताभाव: का विषयतिधया स्वीकर्तुमर्हत, तस्य = अत्यन्ताभावस्य सार्वदिकतादात्म्यपरिणामानधिकरणाधिकरणस्वरूपत्वात् = सर्वदा तादात्म्यपरिणामस्य यदाधिकरणं ताहमधिकरणस्वरूपत्वात् । तदुक्तं प्रमाणनयतत्वालोकालङ्कारे श्रीवादिदेवसूरितरेण कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः इति यथा चेतनाचेतनयोरिति (प्र.न.त. ३/६१-६२) । अतीतानागतवर्तमानलक्षणं कालत्रयमपेक्षत इत्येवं शीला = कालत्रयापेक्षिणी । तादात्म्यपरिणामनिवृतिः = एकत्वपरिणतिव्यावृति: :34 - त्यन्ताभाव इत्यभिधीयते <- इति व्याख्यातं स्यादवादरत्नाकरे श्रीवादिदेवसूरिवरेण । तथा च = अत्यन्ताभावस्य त्रैकालिकतादात्म्यपरिणतितिरहरूपत्वाच्च भूतले घटदशायां = घटसत्वे अपि भूतले घटातादात्म्यविरहेण = घढ़ीयतादात्म्यपरिणत्यभावेन 'भूतले घटो नास्ती'ति प्रतीत्यापत्तेः = तादृशप्रतीतिप्रामाण्यप्रसङ्गात्, तस्याः तद्वति तत्प्रकारकत्वावगाहित्वात् । प्रतीतिश्चोपलक्षणं तथाविधव्यवहारस्य । न च भूतले संयोगदशायां = घटप्रतियोगिकसंयोगकाले संयुक्तत्वेन रूपेण भूतलेऽपि घटतादात्म्यं = घटतादात्म्यपरिणतिः
BE 'भूतले घटो नास्ति' प्रतीति मीमांसा BE
पूर्वपक्ष: स्यादेत । 'भूतले घटो नास्ति' आ प्रतीतिनो विषय भोग अने छे ? ओ ओ समस्या छे. घटना अत्यंताभावने તો તે પ્રતીતિનો વિષય માની શકાતો નથી, કારણ કે અત્યંતાભાવ તો સર્વકાલીન તાદાત્મ્યપરિણામનું જે અધિકરણ ન હોય તેવા અધિકરણસ્વરૂપ છે. પ્રમાણનયતત્ત્વાલોકાલંકાર ગ્રંથમાં શ્રીવાદિદેવસૂરિજી મહારાજે પણ અત્યંતાભાવનું સૂત્રાત્મક લક્ષણ બનાવતાં જણાવેલ છે કે ‘ત્રૈકાલિક તાદાત્મ્યપરિણામનિવૃત્તિ એ અત્યંતાભાવ છે.' આથી જયારે ભૂતલમાં ઘટ હોય ત્યારે પણ ઘટનું તાદાત્મ્ય ભૂતલમાં ન હોવાથી ‘ભૂતલમાં ઘડો નથી’ એવી પ્રતીતિની આપત્તિ આવશે. ત્રણ કાળમાં ભૂતલમાં કયારેય ઘટતાદાત્મ્ય શકય નથી. —> ભૂતલમાં ઘટ સંયોગસંબંધથી રહેલો હોય ત્યારે ઘટસંયુક્ત ભૂતલ અને ભૂતલસંયુક્ત ઘટ હોવાથી સંયુક્તત્વધર્મરૂપે ભૂતલમાં પણ ઘટનું તાદાત્મ્ય છે જ. આથી જયારે ભૂતલ ઘટસંયુક્ત હશે ત્યારે ‘ભૂતલમાં ઘડો નથી’ એ પ્રતીતિ કે વ્યવહારની આપત્તિ નહીં આવે. <← આ દલિલ પણ બરાબર નથી, કારણ કે શ્રીવાદિદેવસૂરિજી મહારાજે સ્વયં તાદાત્મ્ય શબ્દની વ્યાખ્યા સ્યાદ્વાદરત્નાકર ગ્રંથમાં એકત્વ = ઐક્ય અર્થમાં કરી છે. અર્થાત્ તાદાત્મ્યપરિગતિ = ઐક્યપરિણતિ. એકત્વપરિણતિનો અર્થ છે પાર્થક્યરૂપે અસ્તિત્વ ન હોવું. ભૂતલમાં ઘટનું અપૃથકત્વ તો નથી જ. ભૂતલથી પૃથસ્વરૂપે ઘટની અને ઘટથી પૃથક્સ્વરૂપે ભૂતલની પ્રતીતિ અને વ્યવહાર થાય જ