________________
२५२ न्यायालोके द्वितीय: प्रकाश:
* प्रमाणवार्तिकसमालोचना
बाह्यार्थवादे उक्तगौरवन्तु प्रामाणिकमिति दिग ।
भानुमती
वैधुर्यात् स्वयं सैव प्रकाशते ॥ (३/३२७) इति प्रमाणवार्तिककारवचनमपि प्रत्याख्यातम्, सार्वलौकिकस्वारसिकानुभवापलापे उन्मतत्वप्रसङ्गात् ।
स्यादेतत् माऽस्तु बुद्धस्य सर्वज्ञता किं नश्छिन्नम् । तदसदर्वज्ञत्वस्येष्टत्वात् । तदुक्तं धर्मकीर्तिना प्रमाणवार्तिके · सर्वं पश्यतु मा वा मा तत्त्वमिष्टं तु पश्यतु । किटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ॥ (प्र.वा.) न चैतावता तदुक्तव्यवस्थाया अव्यवस्थितत्वम्, तस्याः प्रामाण्यमूलकत्वात् । नच प्रामाण्यं सर्वज्ञत्वाऽधीनं किन्तु तद्याथार्थ्याधीनम् । दूरदर्शित्वस्य प्रामाण्यव्यवस्थापकत्वे गृधादीनामुपास्यतापतिः । तदुक्तं धर्मकीर्तिनैव तत्रैव -> प्रमाणं दूरदर्शी चेत् ? एते गुधान् उपास्महे । (प्र.वा. ५ / ३५ ) इति । ततश्च ज्ञानस्य ज्ञानान्तरग्राह्यत्वं ग्राहकत्वं वेति । मैवम्, परचिताऽग्रहे सभायां वचनप्रयोगाऽसम्भवात् एवमेवोच्चारणे उन्मतप्रलापत्वापते: । न च सम्भावनयैव तत्प्रयोग इति वाच्यम्, तथापि ज्ञाने ग्राहकत्वानपायात्, सम्भावनाया ज्ञानरूपत्वात् । वस्तुतस्तु परकीयपदप्रयोगाऽऽकर्णनानन्तरं प्रेक्षावान् पदार्थ परिच्छिनत्येव न तु सम्भावयति, तदुत्तरं 'निश्चितोमी'ति प्रतिसन्धानात् । एतेन - विकल्पयोनयः शब्दाः विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि ॥ - इति प्रागुक्तं (दृश्यतां २०२ तमे पुष्ठे) प्रत्याख्यातम्, अगत्यो विस्तरस्तु मत्कृतमोक्षरत्नाभिधानायां "भाषारहस्यविवरणटीकायां दृष्टव्यः । ( दृश्यतां भाषारहस्ये १४ तमस्य श्लोकस्य टीकायां ५० तमे पृष्ठे )
ननु ज्ञालातिरिक्तार्थोपगमे गौरवमुक्तं किं विस्मर्यते ? न, बाढं स्मरामि बाह्यार्थवादे उक्तगौरवं = चक्षुरादिकार्यतावच्छेदकगौरवं (दृश्यतां २०३ तमे पृष्ठे ) । तत् तु प्रामाणिकं इति नापहोतुमुचितम्, सिद्ध्यसिद्धिभ्यां व्याघातात् । एतेन प्रत्यक्षव्यवहारे प्रत्यक्षत्वस्यैव प्रयोजकत्वात्, क्वचित् प्रत्यक्षत्वस्य क्वचिच्च प्रत्यक्षविषयत्वस्य तथात्वे गौरवात् <- इति निरस्तम् ।
एतेन -> प्रमेयव्यवस्थापकं प्रमाणं किं प्रमेयात् पूर्वकालभावि स्यादुदस्विदुत्तरकालभाति समकालभावि वा ? प्रथमपक्षे कथमस्य प्रमेयव्यवस्थापकता ? तमन्तरेणैवोत्पद्यमानत्वात् व्योमकुसुमज्ञानवत् । द्वितीयपक्षे तु प्रमाणात् पूर्वकालवृतित्वं नीलादेः प्रमेयस्य कुतश्चित् प्रतिपन्नं न वा ? यदि न प्रतिपन्नं, कथं सद्व्यवहारविषयः कूर्मरोमवत् । अथ प्रतिपन्नं, तत्किं स्वतः परतो वा ? यदि स्वतः, कथमस्य ज्ञानादेदः ? तस्यैव स्वतोऽवभासलक्षणत्वात् । अथ परतः, ता सम्भवति, प्रमाणव्यतिरिक्तस्य प्रमेयव्यवस्थाहेतोरभावात् । न च प्रमाणमेव प्रमेयस्य पूर्वकालवृतित्वं प्रकाशयतीति वाच्यम्, तस्य स्वयमसतः प्रमेयकाले तत्प्रकाशत्वाऽयोगात् । समकालत्वे तु प्रमाणप्रमेययोः सव्येतरगोविषाणवत् ग्राह्यग्राहकभावाऽभावः <- इति प्रत्याख्यातम्, प्रकाशकस्य पूर्वोत्तरसहभावनियमाऽभावात् । तथाहि क्वचित् पूर्वं विद्यमानपदार्थ: पश्चाद्भाविनः प्रकाश्यस्य प्रकाशको भवति यथा कृत्तिकोदय: शकलेदयस्य । क्वचित् पुनः प्रकाशक: समकालमवलोक्यते यथा कृतकत्वादिरनित्यत्वादेः । अतः प्रमाणं पूर्वोत्तरसहभावनियमानपेक्षं वस्तु प्रकाशयति; प्रकाशकत्वादित्यादि व्यक्तं स्यादवादरत्नाकरे (स्या. र. परि. १/ सू. ५६ - पृ. 9198) 1
अथ यया प्रत्यासत्या ज्ञानं स्वरूपं गोचरयति तयैव चेदर्थम्, तदा तयोरैक्यापतिः, अन्यथा चेत् ? स्वभावव्दयापत्तिः, तदपि वाऽपरेण स्वभावव्दयेन तदपि चान्येन तेन ग्राह्यमित्यनवस्था, स्वसंविदितस्याऽसंविदितरूपाऽयोगादिति चेत् ? मैवम्, लिङ्गस्य समानक्षणकरणेऽप्यस्य पर्यनुयोगस्य समानत्वात् । 'लिङ्गं तदुभयकरणैकस्वभावमिति चेत् ? 'ज्ञानमपि स्व-परग्रहणैकस्वभावमिति स्वीकारे कस्तव कर्णशूलनिवारगोपायः ? (स्वा. क. स्त. ५ का. ५२ - पृ. ४५ ) इत्यधिकं स्यादवादकल्पलतायाम् ।
જ રહે છે. આથી અર્થ અને જ્ઞાનમાં ભેદ સિદ્ધ થવો પ્રામાણિક છે. - આવું પ્રકરણકારશ્રીનું પ્રસ્તુતમાં તાત્પર્ય છે. જો કે અર્થને જ્ઞાનથી ભિન્ન માનવામાં અતિરિક્ત પદાર્થ સ્વીકારવાનું ગૌરવ આવે છે. પરંતુ તે પ્રામાણિક = પ્રમાણસહકૃત હોવાથી નિર્દોષ છે. જે ગૌરવના સ્વીકારમાં કોઈ પ્રાણ ન હોય તેવું ગૌરવ જ દૂષણસ્વરૂપ છે.પ્રામાણિક ગૌરવ તો ભૂષણસ્વરૂપ છે. ઉલટું તેનો અપલાપ કરવો એ જ દૂષણ છે કે જે વૈચારિક પ્રદૂષણનું ફલ હોવાથી ત્યાજય છે. અહીં જે કાંઈ કહેવામાં આવ્યુ છે તે તો એક દિગ્દર્શન માત્ર છે.બાકી હજુ આના અનુસારે આગળ ઘણું વિચારી શકાય છે. આ વાતની સૂચના કરવા માટે પ્રકરણકારશ્રીએ ‘વિક્’ શબ્દનો પ્રયોગ કર્યો છે. * स्वप्राशवाहमां टोस्टीना आक्षेप विज्ञानवाही :- नन्व । अर्थ अने ज्ञाननो प्रकाश (=संबेधन ) मे भे ४ इथे अर्थात् भेडा बेहनमां अर्थ अने ज्ञाननुं ટિપ્પણી :- ૧. દિવ્યદર્શનટ્રસ્ટ તરફથી પ્રકાશિત ભાષારહસ્ય - મોક્ષરત્ના (સંસ્કૃત) ટીકા અને કુસુમામોદા (હિન્દી) ટીકાથી યુક્ત
परिहार
-