SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०६ न्यायालोके द्वितीयः प्रकाशः * योग्यत्वनिर्वचनेऽभिनवप्रकारप्रदर्शनम् सति भूतले घटाभाववत् पिशाचाभावस्यापि ग्रहणप्रसङ्गात् । न चेष्टापत्तिः, 'पिशाचाभावं पश्यामी' त्यप्रतिसन्धानात् । किञ्चैकस्य चित्रज्ञानस्य कथमनेकाकारशबलत्वं ? विरोधात् । न च बाह्यस्यैव विरुद्धधर्माध्यासाद्भेदः, भानुमती. ------- भावस्यैव सामान्यस्याभावसाधकत्वोपगमे सति भूतले घटाभाववत् पिशाचाभावस्यापि ग्रहणप्रसङ्गात्, पिशाचस्य भूतलेऽनुपलम्भात् । न च ज्ञानादैतवादिना भूतले पिशाचाभावस्य चक्षुषा ग्रहणे इष्टापतिः वक्तुं शक्या; तत्र चक्षुषा पिशाचानुपलम्भोतरं 'पिशाचाभावं पश्यामी'त्यप्रतिसन्धानात् । यथा मुण्डभूतले आलोकसत्वे चक्षुर्व्यापारानन्तरं 'घटाभावं पश्यामी'त्यवधानं भवति तथा तदानीं 'पिशाचाभावं पश्यामी'ति प्रत्ययो नैव भवति । अतो नानुपलब्ध्या पिशाचाभावग्रहणं घटाभावग्रहणमिव स्वीकर्तुं युज्यते । अपर्यालोचितस्यादवादकल्पलतादिशन्थाः केचित्तु प्रकृते > उपलब्धिलक्षणप्राप्तत्वविशेषणबलादनुपलब्धौ प्रतियोगिसत्वप्रस अनप्रसतिप्रतियोगिकत्वलक्षणं योग्यत्वं लभ्यते । तथा च तादृशयोग्यत्वविशिष्टस्योपलम्भाभावस्याभाव हे हेतुत्वामायाति <- इति व्याख्यानयन्ति, तच्चिन्त्यम्, प्रकृते ग्रन्थकृता निरुक्तोपलब्धिलक्षणप्राप्तत्वमर्धविशेषणविधया पूर्वमुपन्यस्तं न त्वनुपलब्धिविशेषणविधयेति । परम्परयैत प्रतियोगिव्याप्येतरयावत्प्रतियोग्युपलम्भकसमवहितत्वलक्षणं योग्यत्वमुपलम्भाभाते विवक्ष्यते तदा त्वस्मदुक्तरीत्या सम्यगेव । -किन्तु तत्र चिन्तामणिकारसम्मतं प्रतियोगिसत्वप्रस अनप्र सक्षितप्रतियोगिकत्वलक्षणं योग्यत्वं नैव वकुं युज्यते प्रतियोगिन अरोपं विनाऽप्यभावप्रत्यक्षोदयात् । न च प्रतियोगिसत्वव्यापकोपलम्भविषयप्रतियोगिताभावत्वं योग्यतावच्छेदकमिति निष्कर्षालायं दोष इति वाच्यम्, यतः शुद्धं प्रतियोगिसत्वं व्याप्यं चेत् ? तदा व्यभिचार:, तत्सत्वेऽपि कारणान्तराभावेनानुपलम्भात् 1 किञ्चिदवच्छेनं तथेति चेत् ? तर्हि जलपरमाणौ पृथिवीत्वाभावप्रत्यक्षत्वापातात्, तत्रापि महत्वादिविशिष्पृथिवीत्वेनोपलम्भापादनसम्भवात् । नच पक्षातुतिविशेषणानवांच्छेञ्जयत्सत्वोक्तौ निस्तार:, तथापि गन्धवदणुभिनत्वे सति पृथिवीत्वेन तत्र तदापादनासम्भवादिति व्यक्तं स्यादवादकल्पलतायाम् (स्या.कं. स्त. १ का. ९) । वस्तुतस्तु या यस्य सत्वं स्वसत्वविरोध्यनुपलब्धिविरोधि तत्र तस्यैव तदनुपलम्भेन योग्यत्वम् । तेन नान्धकारस्थघननुपलम्भेऽपि घटाभावग्रहप्रसङ्गः, तत्र घटसत्वस्यानुपलब्धेसहचरितत्वेनाविरोधित्वात् । अत एव पितादिदोषात् शङ्खे श्वतरूपाऽग्रहेऽपि न तदभावग्रहापतिः, तत्र शुक्लरूपसत्वस्यानुपलब्धेि सहचरितत्वेनातिरोधित्वात् । एतेनान्यस्य चक्षुषा तद्गहप्रसङ्गोऽपि प्रत्याख्यातः । न वा घटेन्द्रियसनिकर्षस्य योग्यतापति:, तदनुपलब्धेः स्वसत्वाविरोधित्वादित्यस्मदेकोनीतोऽयं पन्थाः विभाव्यतां कोविदैः । एकान्तवादेऽनेकान्तवादी दोषान्तरमाह किञ्च एकस्य = अभिन्नस्य सत: 'इमे नील-पीत-रक्ताः' इति चित्रज्ञानस्य = समूहालम्बनज्ञानस्य कथं अनेकाकारशबलत्वं = मिथोविरुद्ध-नील-पीतादिनानाकारकरम्बितत्वं स्यात् ? नील- पीतादीनां परस्परं विरोधात् = सहानवस्थानविरोधात्, :अन्धकार-प्रकाशयोरित । विरुद्धधर्माध्यासस्य स्वाश्रयभेदकत्वेन मिथो विरुद्धाः ज्ञाने यावन्तो नील-पीताधाकाराः तावद्भेदभिन्नं चित्रज्ञानं प्रसज्येतेति तच्चित्रतैव विलीयेत, एकस्मिन् निरंशे झाले एकैकाकारस्यैत सम्भवात् । तथा च युगवत् नील-पीतादिनानाकारप्रतिभासो न स्यादेकान्तवादे । न च बाह्यस्य = ज्ञानांतिरिक्तस्य एव अर्थस्य विरुद्ध धर्माध्यासात् मिथो - = અર્થવિષયક જ્ઞાનના અભાવને જ સામાન્યથી અર્થભાવગ્રાહક માનવો યોગ્ય છે. માટે ઉપલંભ પૂર્વે અનુપલબ્ધિ દ્વારા અર્થભાવની સિદ્ધિ થશે. — આવું જ્ઞાનાદ્વૈતવાદીનું કથન વ્યાજબી નથી, કારણ કે જો સામાન્યત: અર્થવિષયક જ્ઞાનના અભાવને = અનુપલંભને અર્થાભાવનો શાપ માનવામાં આવે તો ભૂતલમાં ઘટાભાવની જેમ પિશાચાભાવનું પણ ભાન = ચાક્ષુષ થવાની આપત્તિ આવશે, કારણ કે શૂન્ય ભૂતલમાં ઘટની જેમ પિશાચ પણ અનુપલબ્ધ = અજ્ઞાત છે. પિશાચાભાવના ભાનને ઈટાપત્તિસ્વરૂપે બૌદ્ધ સ્વીકારી નહિ શકે, કેમ કે શૂન્ય ભૂતલમાં દિવસે ચારે બાજુ વ્યવસ્થિત નજર કર્યા પછી જેમ ‘ઘટાભાવને હું જોઉં છું' એવો સાક્ષાત્કાર થાય છે તેમ ‘પિશાચાભાવને હું જોઉં છું' એવું ભાન થતું નથી. માટે અર્થવિષયક અજ્ઞાન માત્રને અર્થનિષેધક માની ન શકાય. માટે જ ઉપલંભ પૂર્વે સર્વત્ર નીલાદિ બાહ્ય અર્થના અભાવની સિદ્ધિ નહિ થઈ શકે.-એ વાત અવિચલિત રહે છે. <— આવું જૈન વિદ્વાનોનું કથન છે. ॐ चित्रज्ञान विज्ञानवाहमां जसंलव - स्याद्वाही किञ्च । वणी, भेडात से पाग विधारागीय विज्ञानाद्वैतवाहीना मतमा 'इमे नील पीत रक्ता' भाषा मे ચિત્રજ્ઞાન = ચિત્રકારજ્ઞાન = સમૂહાલંબન જ્ઞાનમાં નીલ, પીત આદિ અનેકાકાર કેવી રીતે ઘટી શકશે ? કારણ કે નીલાકાર, પીતાકાર વગેરે પરસ્પર વિરૂદ્ધ છે. વિરૂદ્ધધર્માધ્યાસ હોવાના લીધે ચિત્રજ્ઞાનને અનેક જ્ઞાનાત્મક માનવું પડશે. બૌદ્ધ એવો બચાવ કરે કે —>
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy