________________
१६८ न्यायालोके प्रथमः प्रकाश ** मीमांसकसम्मतस्वप्रकाशत्वद्योतनम्
नन्वेवमेकत्र व्यवसाये ज्ञान - ज्ञानाद्यनन्ताकारभारमन्थरत्वं स्यात् । तथा च तावत्प्रतिसन्धानं दुश्शकमिति चेत् ? न, घटज्ञानज्ञानत्वस्य घटज्ञानत्वादभिन्नतया घटज्ञानत्वेन सर्वज्ञानज्ञानात् । परप्रकाशे च ज्ञानस्य प्रत्यक्षानुपपत्तिः । भानुमती - यकत्वनियमात् स्वव्यवहारे ज्ञानस्य शक्तत्वात्, व्यवहारशक्ति सम्बन्धान्तरेऽप्यनवस्थानात् स्वभाव एव शरणमित्याहुः ।
समवायादयश्च स्वभावत एव तदीयाः,
=
घटज्ञान
ननु एवं ग्राह्यज्ञान-ग्राहकज्ञानाभेदाभ्युपगमे एकत्र घटादिगोचरे व्यवसाये 'घटज्ञानवानहमि 'त्यनुव्यवसायाकारवत् 'घटज्ञानज्ञानवानहमि' त्याद्याकारापातेन ज्ञान - ज्ञानाद्यनन्ताकारभारमन्थरत्वं घटज्ञानज्ञान-घटज्ञानज्ञानज्ञानाद्यनन्ताकारवृन्दगुपिलत्वं स्यात् । तथा च तावत्प्रतिसन्धानं = घटज्ञानघटज्ञानज्ञानाघनन ताकारभानमेकत्र ज्ञाने दुःशकमिति चेत् ? न, यथा चिन्तामणिकारमते अनुव्यवसायो विषयमागनिरूप्यो न तु तद्विषयपरम्परानिरूप्यो गौरवादिति ज्ञानज्ञानत्वेन सर्वा वितिरस्मदादेरुत्पद्यमानाऽनुभूयत एव (त. चिं.प्र. खं. पु. ८०२) तथा स्यादवादिनये व्यवसायस्यानुव्यवसायाकारसंवलितत्वेऽपि घटज्ञानज्ञानादेर्घदविषयक नया घटज्ञानज्ञानादिविषयताया घटज्ञानविषयत्वानतिरिक्तत्वेन घटज्ञानज्ञानत्वस्य वस्तुतो घटज्ञानत्वादभिन्नतया घटज्ञानत्वेन रूपेण सर्वज्ञानज्ञानात् घटमूलक सर्वज्ञानानां भालाभ्युपगमात् । तदुक्तं स्यादवादकल्पलतायामपि घटज्ञानज्ञानादिविषयतुया अपि वस्तुतो घटज्ञानविषयताऽनतिरेकात्' <- (स्त. ५) का. ८४ पृ. २१८ ) । न च 'घटज्ञानज्ञानादिविषयताया घटज्ञानविषयताऽनतिरेके 'घटं जानामि', 'घटज्ञानं जानामी' त्यभिलापभेदो न स्यादिति वक्तव्यम् अभिलापभेदस्य विवक्षाधीनत्वात् ।
=
किस ज्ञानस्य ज्ञानान्तरवेद्यतायामर्थज्ञानं नैव भवेत्, प्रकाशस्य प्रकाशापेक्षायामप्रकाशतावत् । न हि स्वपरज्ञाने परमुत्रप्रेक्षित्वं परित्यज्याऽपरं जड़स्य लक्षणमिति (प्र.न. त. ५ - २८स्या. र. पु. २२६) व्यक्तं स्यादवादरत्नाकरे ।
परप्रकाशत्वपक्षे हि ज्ञानमेव न सिध्येत्, मानाभावात् । न हि तत्र ज्ञातता लिङ्गं, अतीतानागतयोस्तदभावात् । नाऽपि नानसं प्रत्यक्षं, अजिज्ञासितस्य मानसत्वे ज्ञानाविरामात्, अनवस्थानात् विषयान्तराऽसञ्चाराच्च । जिज्ञासितस्य ग्राह्यत्वे ज्ञानं न मानसं जिज्ञासाग्राह्यात्मधर्मत्वात्, संस्कारवदित्यनुमानप्रतिरोध: । अत एव जिझासां विनैव सुखादीनां मानसत्वम् । जिज्ञासाऽपि ज्ञानसाध्येत्यनवस्था, धर्मिज्ञानेच्छादिभिर्ज्ञानस्य नाशाच्च न प्रत्यक्षत्वम् । एतेल ज्ञानं मानसप्रत्यक्षं प्रत्यक्षात्मगुणत्वात्, आत्मविशेषगुणत्वे सति क्षणमात्रस्थायित्वात् सुखवदिति निरस्तम्, मानस वेऽनवस्थानात् । अत एव चक्षुर्ण चाक्षुषज्ञानग्राहकं बहिरिन्द्रियत्वात् रसनवदित्यपि परास्तम्, परप्रकाशत्वेऽनवस्थया ज्ञानाऽसिद्धावाश्रयाऽसिद्धेः, स्वप्रकाशत्वेन तत्सिदौ धर्मिग्राहकमानबाधात् । इत्थं परिशेषन्यायेन धर्मिग्राहकमानात् स्वप्रकाशत्वसिद्धावान्यगतिकतया स्वस्याऽसन्निकृष्टस्यापि प्रत्यक्षविषयत्वमिति मीमांसकाः । तदुक्तं प्रकरणपथिकायां शालिकनाथमिश्रेणापि न चार्थज्ञानस्य ज्ञानान्तराधीनम वभासनम् । त च ज्ञानन्तरादवगमः, ज्ञानान्तरादकामेनाऽवगमे चानवस्थाप्रसङ्गात् । तस्मादर्थज्ञानं स्वयम्प्रकाशमेवाज्भ्युपेतव्यम् (पु. १८९) इति ।
-
तदुक्तं कूर्मपुराणेऽपि यथा दीप: प्रकाशात्मा इस्वो वा यदि वा महान् । ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु ॥ ( २/२/११) गुण-गुणिनोरभेदविवक्षयेदमपि सम्यक् । प्रकृतप्रकरणकृदाह - परप्रकाशे च = ज्ञानत्वावच्छास्य परतो ग्राह्यत्वमते हि ज्ञानस्य प्रत्यक्षानुपपत्ति:, अनुव्यवसायक्षणे व्यवसायाभातात् (
* स्वप्राशपक्षमां जनन्ताकारता यापत्तिनो परिहार
નન્નેવ । અહીં એક શંકા થાય છે કે —> જો ગ્રાહ્યજ્ઞાન અને ગ્રાહકજ્ઞાનમાં ભેદ માનવામાં ન આવે તો ઘટજ્ઞાનમાં ઘટજ્ઞાનજ્ઞાન, તજ્ઞાન, તજજ્ઞાનજ્ઞાન આદિ અનન્ત જ્ઞાનઆકારતાની આપત્તિ આવશે અને એ અનંતા જ્ઞાનઆકારના ભારની નીચે મૂળ જ્ઞાન બિચારું દબાઈ જશે. તથા એ અનંત આકાર દુર્રેય હોવાથી તેનું ભાન ભારે મુશ્કેલ બની જશે. – એના સમાધાનમાં એમ કહી શકાય છે કે ઘટજ્ઞાનજ્ઞાન, નજ્ઞાન વગેરે વિષયક હોવાથી ઘટજ્ઞાનાત્મક જ છે. તેથી ઘટજ્ઞાનજ્ઞાનત્વ એ ઘટજ્ઞાનત્વસ્વરૂપ જ છે, તેનાથી ભિન્ન નહિ. આથી ઘટજ્ઞાન, ઘટજ્ઞાનજ્ઞાન, ઘટજ્ઞાન-જ્ઞાન-જ્ઞાન વગેરે બધા જ્ઞાનનું ઘટજ્ઞાનસ્વરૂપે ભાન થઈ જશે.
परप्रप्राशभतभां ज्ञाननुं प्रत्यक्ष असंलवित
परप्र० । वणी, ज्ञानने परत: प्रकाश मानवामां आवे तो तेनुं प्रत्यक्ष नहि धर्म शडे, अराग के ज्ञानने परप्राश्य मानवावाणा લોકોને મતે જ્ઞાન પ્રથમ ક્ષણમાં ઉત્પન્ન થાય છે, બીજી ક્ષણમાં જ્ઞાનત્વનું નિર્વિકલ્પક માનસ પ્રત્યક્ષ થાય છે. તથા તૃતીય ક્ષણમાં જ્ઞાનત્વવિશિષ્ટ જ્ઞાનનું માનસ પ્રત્યક્ષ થાય છે, જે વ્યવસાય જ્ઞાન પછી ઉત્પન્ન થવાથી અનુવ્યવસાય કહેવાય છે. પરંતુ આ તૃતીય ક્ષણમાં