________________
१४६ न्यायालोके प्रथमः प्रकाश:
* अनुमितेर्मानसत्वखण्डनम्
सामानाधिकरण्य- कालिकोभयसम्बन्धावच्छिन्नतदभावस्य निवेशादित्यधिकं मत्कृतस्याद्वादरहस्ये । तस्मादात्मनः प्रमाणसिद्धत्वान तस्य मोक्षाद्यसम्भव इति ॥
• भानुमती.
सत्वादिति शङ्कनीयम्, सामानाधिकरण्य- कालिको भयसम्बन्धावच्छिन्नतदभावस्य = स्वसामानाधिकरण्यकालिको भगसम्बन्धार्ताच्छेलप्रतियोगिताकस्य सुख-दुःखाभावस्य, मानसत्तावच्छेझप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टानुमित्यादिसामग्रीविशेषणकुक्षौ निवेशात् । सुखादिजन्मकाले परामर्शादिः समवायेन सुखादितिशिष्यत्वविरहेऽपि स्वसामानाधिकरण्य-स्वसमानकालिकत्वोभयसम्बन्धेन सुखादिविशिष्टत्वेन सामानाधिकरण्यकालिकोभयसम्बन्धावच्छिन्नप्रतियोगिताक-सुखाद्यभावविशिष्टपरामर्शलक्षणस्य मानसप्रतिबधकस्याऽसत्वाचानुमित्यापतिर्न वा भोगानापतिः । न च सामानाधिकरण्यसम्बन्धावच्छेशप्रतियोगिताकसु खाद्यभावस्यैत प्रतिबन्धककुक्षावुतेलकाभावविधया प्रवेशोऽस्तु किं कालिकसमावेशेनेति साम्प्रतम्, सामानाधिकरण्येन विनसुखादिकमादाय सुखादिजन्मविरहकालेऽपि परामर्शादिसमवधानादनुमित्यनुयापतेः । न च तर्हि कालिकार्ताच्छेल्लतदभातस्योत्तेजकाभावत्वमस्त्वित्यारे कणीयम्, चैत्रीयसुखमादाय सुखादिशून्यमैत्रेऽपि धूमादिपरामर्शदशायामालाजुमित्यनापतेः । इत्थस समवायेन मानसत्वावच्छिन्नं प्रति स्वनिरूपितसामानाधिकरण्यकालिकोभयसम्बन्धावच्छिन्नप्रतियोगिताकसुख-दुःखाभावविशिष्टानुमित्यादिसामण्या : प्रतिबन्धकत्वसिद्धावनुमितेर्न मानसत्वमपि तु प्रमित्यन्तरत्वमेवेति दुर्वार एवं प्रतिज्ञासंत्र्यासो नास्तिकानामिति नैयायिकाशयः ।
"तत्रेदं चिन्त्यम् - अनुमितिसामग्या मानसं प्रति प्रतिबन्धकत्वस्य ततदिच्छारूपोतेजक भेदेन विशिष्य विश्रान्त्याऽनुमिते. र्मानसत्व एव वन्यादिमानसं प्रत्यप्रतिबन्धकत्वकल्पनया लाघवम् । ततदिच्छोपजायमानभिडो प्रतिबध्यतावच्छेदकजातिस्वीकारस्तु परामर्शजन्यभिहोऽपि भजमान इति न तद्दन्याद्यनुमितिसामग्रीकाले उच्छृंखलोपस्थित प्रादिभानवारणाय मानसत्वस्य तत्प्रतिबध्यतावच्छेदकत्वकल्पनौचित्येनानुमितेरप्रत्यक्षत्वाभिधानं युक्तमिति । च तज्जात्यवच्छिन्नं प्रत्यनुगतकारणकल्पनापतिः, कार्यमात्रवृतिजाते: कार्यतावच्छेदकत्वनियमे मानाऽभावात् । किञ्च विजातीयसुख-दुःखानां नोवेजकत्वं, सुखत्वादिना सांकर्येण तद्वैजात्याऽसिद्धेः ।
------
--
----
प्राञ्चस्तु उपनीतभानस्थले विशेषणज्ञान - विशिष्टबुद्योः कार्यकारणभावेनैवास्माकं चरितार्थता, अनुमितेर्मानसत्वव्याप्यतावादे तु पक्षादेर्मुख्यविशेष्यतयैत भानाझानेन गतार्थता इत्यतिरिक्त कार्यकारणभावकल्पने. गौरवमित्याहुः । वस्तुतस्तु - अनुमितेर्मानसत्वे एकतन्यनुमितिकृतोऽपि द्वितीयतदापतिः, प्रत्यक्षस्य सिद्धराप्रतिबध्यत्वात् । न च प्रत्यक्षान्तरस्याऽतथात्वेऽप्यनन्यगत्याऽनुमितिरूपप्रत्यक्षस्य सिद्धिप्रतिबध्यत्वाज्ञायं दोष इति वाच्यं, 'सुखव्याप्यज्ञानवानि 'त्यादिपरामर्शजन्यायां 'सुखतानात्मे' त्याद्यनुमितौ विजातीयात्ममन:संयोगजन्यतावच्छेदिकया सांकर्या मानसत्वव्याप्यानुमितित्वजात्यसिद्धेः । यत्तु उपदर्शितालुमितौ संनिकर्षनियम्यलौकिकविषयतायाः सम्भवेन 'साक्षात्करोमी 'तिप्रतीत्यापतिरिति <- तन्न, संनिकर्षजन्यसंशयसाधाराणयेन लौकिकान्यविषयतायाः 'साक्षात्करोमी' तिधीप्रतिबन्धकताऽकल्पनेन तद्दोषानवकाशात्, उपदर्शितानुमितौ लौकिकाऽलौकिकोभयविषयतायाः स्वीकारात् । लौकिकविषयतावन्निश्चयत्वेनैव 'साक्षात्करोमी' तिधीहेतुत्वम् । निश्चयत्वं च तदद्भावप्रकारकत्वाऽनुमितित्वोभयाभाववत्वे सति तत्प्रकारकज्ञानत्वमतो नाऽयं दोष इत्यपि कश्चित् ।" <- इत्येवं अधिकं मत्कृतस्यादवादरहस्ये = महोपाध्याय - न्यायविशास्त्ररचित-मध्यमपरिमाणस्यादवादरहस्याभिधाने प्रकरणे वर्तते । तत्वमत्रत्यं तदुपरि मत्कृतजयलताया बोद्धव्यम् ।
"नन्वात्मैव नास्ति तद्ग्राहकप्रमाणाभावात्, प्रत्यक्षस्य तत्राऽप्रसरात्, अनुमानागमयोश्चाप्रमाणत्वादिति कस्य मोक्षः ?” (पु. ८४) इत्यादिना यत्पूर्वमुपक्रान्तं तत् प्रकरणकार उपसंहरति तस्मात् = अनुमानादेरपि प्रमाणान्तरत्वात् अनुमानादिगम्यस्य आत्मनः प्रमाणसिद्धत्वात्, न तस्य मोक्षाद्यसम्भवः इति ।
પરામર્શાદ રહે તો તે સામાનાધિકરણ્ય અને કાલિક ઉભયસંબંધથી ઉત્તેજકીભૂત સુખાદિથી વિશિષ્ટ બની જવાથી સામાનાધિકરણ્યકાલિકોભયસંબંધાવચ્છિન્નપ્રતિયોગિતાક સુખાદિઅભાવથી વિશિષ્ટ પરામર્શદિરૂપ પ્રતિબંધક હાજર ન રહેવાના લીધે સુખાદિકાલમાં પરામર્શાદ હોતે છતે પણ ભોગની = સુખાદિસાક્ષાત્કારની અનુપપત્તિને અવકાશ રહેતો નથી. જ્યારે ચૈત્રમાં સમવાયસંબંધથી સુખ યા દુ:ખ ન રહે ત્યારે ચૈત્રસમવેત પરામર્શાદિ કાલિકસંબંધથી સુખાદિવિશિષ્ટ બનવા છતાં સામાનાધિકરણ્ય-કાલિકઉભયસંબંધથી સુખાદિવિશિષ્ટ ન હોવાથી તાદશોભયસંબંધાવચ્છિન્નપ્રતિયોગિતાક રાખાદિઅભાવવિશિષ્ટ પરામર્શાદ બની જવાથી ત્યારે ચૈત્રને ભોગની આપત્તિ કે અનુમિતિના ઉદયની અનુપપત્તિને અવકાશ રહેતો નથી. આ બધી ચર્ચાનો ફલિતાર્થ એ છે કે અનુમિતિ માનસપ્રત્યક્ષસ્વરૂપ નથી પણ સ્વતંત્ર પ્રયાત્મક છે. આ વિષયમાં અધિકનિરૂપણ મેં બનાવેલ (મહોપાધ્યાય યશોવિજયજી ગણિવરે રચેલ) મધ્યમપરિમાણવાળા