________________
ललितक्सिलस-सटीका
तबन्यतयेन तु स्तोतव्यसम्पद एव सकारणा स्वरूपसम्बत्, अप्रतिहतवरमानदर्शनवरा व्यावृत्तन्छामानश्याहन्तो भगवन्त इति हेतोः,
टी०...(७) तस्याः-विशेषेणोपयोगसम्पदःपदेभ्योऽन्यपदद्वयेन-(अप्पडियवरनाणदंसणधराणं विअट्टछ उमाणमिति पदद्वयवती) स्तोतव्यसम्पदः-अर्हद्भगवद्रूपस्तोतव्यसम्पत्सम्बन्धिनी, एच मास्य-सम्बन्धिनी, सकारना-कारणेन सहिता, स्वरूपसम्पत् कथ्यते, यतोऽप्रतिहतवरज्ञानदर्शनधरा व्यावृत्तच्छमानश्चाहन्तो भगवन्तो भवन्तीति हेतुरस्तीति. (अर्हतां भगवतां किं स्वरूपमस्ति ? येन स्तोतव्या भवन्ति, तेषां स्वरूपं 'अप्रतिहतवरज्ञानदर्शनधराश्च व्यावृत्तच्छमान इति पदद्वये दशितमस्ति, तत एव सप्तमी स्वरूपसम्पत् कथ्यते, एवं परमात्मनः स्तुतौ प्रबलं प्रकटं कारणं दर्शयितु पदद्वयवतीयं स्वरूपहेतु-सम्पदपि कथिताऽस्ति.) तथा श्रीतीर्थकरदेवस्य केवलज्ञानमयं पर्णतामयं स्वरूपं निरूपयितुं सम्पदेषा सकारणा स्वरूपसम्पद् येन हेतुना स्वरूपं वर्ण्यते सा सहेतुक-स्वरूपसम्पद्विज्ञेयेति. अथ चतुष्पदी, आत्मतुल्यपरफलकर्तृत्वसम्पदष्टमी वर्ण्यते-: तदपरश्चतुभिरात्मतुल्यपरकलकर्तृत्वसम्पत्, जिनजापकत्वतीर्णतारकत्वजुद्धबोधकत्वमुक्तमोचकत्वानामेवंप्रकारत्वात्,
. टी....(८)तस्याः सकारणस्वरूपसम्पदः पदद्वयाभिन्नैश्चतुभिः पदैः (जिणाणं जावयाणं, तिण्णाणं तारयाणं, बुद्धाणं बोहयाणं मुताणं मोमगाणमिति पदचतुष्टयक्ती) आत्मतुल्यपरफलकर्तृत्वनामिकाऽष्टमी सम्पदस्ति, यतो जिनजापकत्व-तीर्णतारकत्व-बुद्धबोधकत्वमुक्तमोचकत्वानि, आत्म (अर्हद्भगवद्रूपात्म) तुल्यपर (भक्तादिपर) फलकर्तृत्वरूपैवंप्रकार-धर्म-शक्तिगुणवन्ति सन्ति । (अस्यां सम्पदि, अर्हन्तो भगवन्तो यादृशं स्वस्वरूपमस्ति तादृशं स्वरूपफलं, अन्येभ्यो जीवेभ्यों ददतीत्यर्थः, यस्या अपरं नाम निजसमफलदसम्पदपि श्रूयतेऽर्थाद् विशुद्धप्रेम्णा प्रभोः स्तुति कुर्वतो भक्तान् प्रभुः स्वतुल्यान् कत्तुं प्रभुः प्रभवति 'नात्यद्भुतं भुवनभूषणभूत नाथ ! इत्यादि भक्तामरस्तोत्र-श्लोकोऽप्यन स्मरणीयः') अथ नवमीं प्रधानगुणाऽपरिक्षयप्रधानफलाप्त्यभयसम्पदं वर्णयति-:. . तदन्यस्तु विभिः प्रधानगुणापरिक्षयप्रधानफलाप्त्यमयसम्पदुक्ता, सर्वज्ञसर्वशिनामेव शिवाचलाविस्थानसम्प्राप्तौ जितमयत्वोपपत्तेः, .. पं०...'प्रधानगुणापरिक्षयप्रधानफलाप्त्यभयसम्पदुक्तेति' प्रधानगुणयोः सर्वज्ञत्वसर्वदर्शित्वयोः, बपरिक्षयेण-अभ्यावत्त्या प्रधानस्य शिवाचलादिस्थानस्य, आप्तौ-लाभे 'अभयसम्पत' जितमयत्वरूपा उक्तेति ।
30