________________
ललितविस्तरासंस्कृतटीका
इति ललितविस्तरा नाम चैत्यवन्दनवृत्तिः समाप्ता, कृतिधर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति श्रीललितविस्तरारूपवृत्तौ समाप्तायाम् ।।
'पञ्जिका पदभञ्जिका' न्यासोऽपि कथ्यते, कठिनपदानां स्पष्टीकृत्यार्थकरणं एतस्याः पञ्जिकाया रचयिता महर्षिराचार्यश्रीमुनिचन्द्रसूरीश्वरजी महासजो जिनागममर्मवेदी, तथा एकः समर्थो दर्शनवेत्ता च प्रखरविद्वान् व्याख्यानकारोऽपि स्वलघुतां दर्शयन् कथयति
ग्रन्थस्य कष्टत्वेऽपि कठिनत्वेऽपि यदि मतिगतं नैपुण्यं-अन्तर्गतवस्तुप्रकाशकं स्यात्तदा अन्थोऽकष्टः स्यात् , मतेरनिपुणत्वे ग्रन्थः कष्टः स्यात्परन्तु यदि तादृग् सम्प्रदायः स्यात्तदा मतिनिपुणत्वे प्राप्ते ग्रन्थोऽकष्टः स्यात् यदि तंत्रांतरमतगतं शास्त्रं सन्निधौ स्यात्तदा तागू सम्प्रदायमतिनैपुण्येन ग्रन्थः कष्टोप्यकष्टः स्यात्तन्नो, तथापि ग्रन्थगतपदार्थानां स्वस्य स्मृत्यै परहितकृते चात्मबोधानुरूपम् यथा स्यात्तथा, इह-ललितविस्तरापञ्जिकानिर्माणे, चित्तस्य शुद्धया व्यापृतः-व्यापारवानहं, आगः-अपराधपदं, मा+आगाम-नाऽऽगमम् ॥
समाप्तम्
प्रशस्तिः विश्ववत्सलजगदुद्धारकपरमकृपासिंधु-श्रीपति-शंखेश्वरपार्श्वनाथप्रभोः परमया कृपया तथा प्रभुश्री महावीरस्य त्रिसप्ततितमपट्टाम्बरे भास्करायमाण-श्री पञ्जाबदेशोद्धारकाचार्यवर्य-विजयानन्दसूरीश्वर-तत्पट्टप्रभाकर-सद्धर्मसंरक्षक श्रीमदाचार्यवर्य कमलसूरीश्वर-पट्टप्रद्योतकाचार्यवर्य श्री सूरिसार्वभौम-जैनरत्नव्याख्यानवाचस्पति-कविकुलकिरीट-लब्धिसूरीश्वर-पट्टभास्कर-धर्मीदवाकर-कविकुलकोटीर-श्रीमदाचार्यवर्य-भुवनतिलकसूरीश्वराणां गुरुवर्याणां शुभार्शीवादेन पू. तार्किकशिरोमणि-आचार्य-श्री-हरिभद्रसूरीश्वर-विरचिता-ललितविस्तरा-चैत्यस्तववृत्तिरस्ति तथा पू. आ. श्री मुनिचंद्रसूरीश्वर-विरचितायां पञ्जिकायाम्, विवेचनरूपो द्वितीयो भागः, तत्र विक्रमसंवत् द्विसहस्रधिकत्रिचत्वारिंशद् वर्षे (२०४३) - आश्विनशुक्लपञ्चम्यां कानपुरनगरे श्री मुनिसुव्रतस्वामिकृपायां टीका, आरब्धा,
विक्रमसंवत् द्विसहस्रधिकषट्चत्वारिंशद् वर्षे (२०४६) दीपालिका प्रभुमहावीरकल्याणकदिव्य दिने मुम्बापुरी मध्ये भारतनगरे श्री शंखेश्वरपार्श्वप्रभोः कृपायां बालजीवाना-मनुग्रहाय सुलभ-टीकायाः मत्कृतायाः ( भद्रंकरसारि कृतायाः) समाप्ति जाता ।
अस्मिन्ग्रंथे मया मतिदोपेण छद्मस्थावस्थायां अिनाज्ञाविरुद्धं कदाचित् लिखितं जातं तदा तन्मिथ्या मे दुष्कृतं भयाद्...